________________ 312 कल्पलताविवेके शृङ्गारादिभ्यो हास्यादीनां कथमुत्पत्तिरित्याह-शृङ्गारानुकृतिः इति / पदपदार्थवाक्यार्थव्याख्यां स्वयमेव कर्तुमाह-अयमर्थः इति / यावान् इति सर्व रसाभासैहास्यरस आक्षिप्यत इत्येकः / कस्यचिद्रसस्य कार्यानन्तरं द्वितीयरसेनावश्यं भवितव्यमिति द्वितीयः। कश्चिद्रसो रसान्तरं फलस्वेनाभिसन्धाय प्रवर्त्यत इति तृतीयः / कश्चिद्रसस्तुल्यविभावत्वा5 नियमेन रसान्तरं सहचरमाक्षिपतीति चतुर्थ इति चतुस्सङ्ख्यः / / तदाभासत्वेन इति / एतत्तदनुकाररूपतयेत्यस्य शृङ्गारानुकृतिपर्यायस्य व्याख्यानम् / शृङ्गारादिरसाभासत्वेनेत्यर्थः / सूचितम् इति तेन शृङ्गारादयः शृङ्गाराधाभास स्थायिकल्पत्वेनाभानवशात् / आतश्च इति / पूर्वं हि कामनाभिलाषमात्ररूपत्वं रत्याभासत्वे 10 हेतुस्तद्वशाच्च विभावादीनामाभासताधुना तु विभावाभासतैव रत्याभासत्वे हेतुरुपदर्यते / लीयेत इति नश्येत् / करुणाद्याभासेषु इति / हास्याभासस्य हि हास्यत्वं सुप्रतीतमेवेत्यनतिदिष्टमप्यत्र द्रष्टव्यम् / तदाभासतायाम् इति / मोक्षविभावाभासतायाम् / प्रहसनइति / प्रहसनरूपकेण हि राजपुत्रादीनां सर्वपुरुषार्थेष्वनौचित्यत्यांगविषया व्युत्पत्तिरा धीयत इत्यर्थः / हास्याभासः इति हास्याभासोऽपि हास्य एवेत्यर्थः। तेन इति / 15 यदभिनन्दनीयेऽपि वस्तुनि हासमुखरत्वं लोकस्य / अस्य इति शृङ्गारस्य / श्रङ्गारात्त इति / न हि शङ्गारकार्य किञ्चित्तथाविधं यद्विभावकेनावश्यं करुणेन भाव्यम् / व्याप्रियते इति / अङ्गतया तु शृङ्गारः करुणजन्मन्युपयुज्यत इत्यर्थः / शोकः इति / अङ्गतयाऽपि शङ्गारो नास्तीत्यर्थः / करुणो त्पत्ति इति / एवं चायैवावां रणमित्यत्रापि हि रौद्रकर्मविभावकत्वं नोपपद्यत इति भावः / 20 यदाह- इति / क्रोधविच्छेदे उक्तमात्रप्रदर्शनपरं न च बन्धुत्वमात्रमिति अपि तु तत्तच्छ्र झारचेष्टानुभवस्मृतिविशिष्टम् / नात्र इति / अत्र भयानकोत्पत्तौ यथाविधिविनियोजितसामाधुपायपुरस्सरपरपराजयादेरुत्साहकर्मगो विभावत्वेनासम्भाव्यमानत्वात् / कर्त्तव्यइति / कर्त्तव्यस्य परपराजयपुरस्सरप्रतापाजनस्य / युद्धवीरे च इति युद्धवीरे हीत्यर्थः / या या इति / या यानुकृतिः स स हास्य इति हेतुहेतुमतोरभेदोपचारः / उपचारप्रयोजनं 25 चान्यवैलक्षण्येन कार्यकारित्वप्रतिपत्तिः / एवंविभावकः इति अनुकृतिविभावकः / तस्य इति वधादेः / दर्शनम् इति / दृश्यते बीभत्सो येन विभावादिना तत् बीभत्सदर्शनं विभावादिलक्षणमित्यर्थः / पूर्वतः इति अद्भुतात् / अयमेव च इति / अयं चाक्षेपप्रकारश्चतुधैव सम्भाव्यत इति / योजना इति इति / शृङ्गाराद्विभवेद्वास्य इत्यनयैव चतुःप्रकाराक्षेपोक्त्या / 1. यथाशास्त्रम् //