________________ अर्थालङ्कारनिर्णयः - शान्तस्यापि इति विषय विपरिवृत्त्याऽन्तर्मुखतालाभेन सर्वरसानां शान्तप्राय एवास्वादः केवलं वासनान्तरोपहित इति हि वक्ष्यते / ततश्च सर्वरसप्रकृतिभूतस्य सामान्यरूपस्य शान्तस्याक्षेपो विशेषरूपाणां रसानामाक्षेप उक्ते उक्त एव भवतीत्यर्थः / व्यभिचारिरूपायाः इति / रतेरिति शेषः / चित्तवृत्तिम् इति स्थायिरूपाम् / अन्यत्रइति सामाजिके / व्यभिचारिणः इति वेषशब्दवाच्याः / ते च इति चकाराद् विभावा 5 अनुभावाश्च गृहीताः / शृङ्गाररूपेण इति शृङ्गारलक्षणेन / तद्दशाद्वयेऽपि इति / सम्भोगदशायां हि रतेः स्वाद्यमानं रूपं शृङ्गार इति / प्रतीतमेव इति विप्रलम्भदशायामेव तत्प्रत्यायनपरोऽपि शब्दोऽत एव चास्यैवार्थस्य समर्थनाय विप्रलम्भे विशेषतो रतिरुपचीयत इत्येतदर्शनपरमेवोक्तमादर्शयिष्यति स्नेहानिति / अत एव इति / यतो दशाद्वयेऽपि रतेरास्था 10 बन्धात्मिकायाः स्वाद्यमानं रूपं शृङ्गारः / अत्रैव इति उभयाधिष्ठाने शृङ्गारे / सत्यत इति / अन्यतरस्यां हि दशायामुपचरितवृत्तिरित्यर्थः / ऋतु- इति / ऋतुर्वसन्तादिः / माल्यं कुसुमापीडः / अनुलेपनं समालम्भनम् / इयत्कामस्योदीपकम् / अलङ्कारः कटकादिः इष्ट जनश्चैतद्वयमुत्तमत्वसूचकम् / विषया गीतादयः / तदन्तर्भूतमपि माल्यादिप्राधान्यात् पृथगुक्तम् / वरभवनं हादि / एतदेशविशेषोपलक्षणम् / एषामुपभोगः 15 उपवनस्योद्यानस्य गमनेनाऽनुभवनम् / श्रवणं वा वरभवनस्थस्याऽपि / एतत् संकल्पादेरप्युपलक्षणम् / क्रीडा जलावगाहनादिका / लीला इष्टस्यानुकृतिः / नयन- इति नयनचातुर्यादिना कान्तादृष्टिलक्ष्यते / तथा च तल्लक्षणम् / हर्षप्रसादजनिता कान्तात्यर्थं समन्मथा / सभ्रत्क्षेपकटाक्षा च शङ्गारे दृष्टिरिष्यते // भ्रुवोरुद्गतिरुक्षेपः सममैकैकशोऽपि वा / इति भूत्क्षेपः तारकास्यस्य दृष्टिमण्डलस्य विचित्रतया गतागतविश्रान्तिप्रबन्धन वर्तनं कटाक्षः / एवं च योजना नयनानां चातुर्येण भूत्क्षेपेण कटाक्षेण च यत् सञ्चारणं ललितं मन्थरं मधुरं नयनाभिरामं च कृत्वा यान्यङ्गानां हरणानि स्वकर्त्तव्यता काले ललितानि सुन्दराभिधेयानि मधुराणि च श्रवणसुखकराणि यानि वाच्यानि / इयता उपा- 25 गाभिनय आङ्गिको वाचिकश्च लक्षितः / विप्रलम्भ इति / विप्रलम्भो विडम्बनं प्रसिद्धमिह तूपचारात्तदीयं फलं विरहात्मकं गृह्यते / तेन हि परस्परं रतिमतोरत्र विडम्बनमस्ति तेन विरहेण कृतः सुष्ठुतमा पोषित इत्यर्थः / व्याध्युन्माद- इति / व्याध्युन्मादापस्मा 1. निवृत्त्या // 20