________________ ..302 कल्पलताविवेके स्वभावस्त्रासो भयात् पूर्वापरविचारपूर्वकादन्य एवेत्यक्षिनिमेपैरिति बहुवचनेन सूचयति // 32 // वितर्को नाम सन्देहविमर्शविप्रत्ययादिभिर्विभावैरुत्पद्यते / तमभिनयेद्विहृत विचारणादिसम्भूतः ससन्देहो नयात्मकः / वितर्कस्त्वभिनेयोऽसौ शिरोभूत्क्षेपकम्पनैः // त्मिका इच्छा / बाधकप्रमाणेन पक्षान्तराभावप्रतीतिमात्रं विप्रत्ययः / विप्रतिपत्तिर्वा / एभ्योऽनन्तरं भवितव्यताप्रत्ययस्वभाव एकतरपक्षशैथिल्यदायी पक्षान्तरं तुल्यकक्यभावाच्च्या वयन् उन्मग्नतामन्यस्य दर्शयंस्तकः / स च संशयात् पृथगेव संशयेन तत्त्वबुभुत्सादिरूपस्य 10 विमर्शादेः स्वीकारेऽपि कविशिक्षार्थ भक्त्वा निरूपणम् / अन्ये तु धर्मिणि सन्देहो धर्मे तु विमर्शो भ्रान्तिज्ञानं विप्रत्यय इत्याहुः / विहृतेति धिया कार्यकलापानां पुनः पुनस्यागप्राप्ती विवक्षिते / मन्त्रसङ्गृहनग्रहणेनाऽस्यावहित्थेन तुल्यस्थायिकतामाह / विचारणापौर्वापर्यादिपरामर्शः / आदिग्रहणेन बाधकप्रमागादि तैतो ह्येकपक्षस्य शैथिल्यं जायत इति विचारगादिपूर्वक इत्युक्तम् / नयस्य षाड्गुण्यप्रयोगस्यात्मा, यतः अन्यपक्षबलवत्त्वगतात् 15 सम्भावनाप्रत्ययादेव हि सर्वो नीतिप्रयोगः / तथा च-दैवमचिन्त्यं पुरुषकारस्तु चिन्त्य इति वदन् चाणक्याचार्यस्तर्कपूर्वकमेव समस्तं व्यवहारमाह / उक्तं च भट्टतातेन / सम्भावनाप्रमाणो हि तीक्ष्णप्रज्ञोऽपि यद् वदेत् / मा गा व्याप्तं नमोऽम्भोदैरम्बुभारानतैरिति // एतदुपसंहरति // 33 // त्रयस्त्रिंशदमी भावा इति त्रयस्त्रिंशदमी इति / अन्येषां 20 त्वत्रैवान्तर्भावः / तद्यथा दम्भस्यावहित्थे / उद्वेगस्य निर्वेदे / क्षुत्तष्णादेग्र्लानौ / एवमन्यदप्यूह्यम् / अपरे तु मन्यन्ते कः खलु चित्तवृत्तीर्गणयितुं समर्थः / गगने वा तार्किकतर्कितात्मगुणनवकेन वा, साङ्ख्यसङ्ख्यातबुद्धिधर्माष्टकविपर्ययादिप्रत्ययचतुष्टयेन वा शोच्यशिक्षितचित्तचैत्तद्वयभेदेन वा सर्वसङ्ग्रहे किमियता / अथ कविनटशिक्षार्थमेतावतो निरूपगमपरे तर्हि निरूपणेन / इहाऽपि विभावाऽनुभावगणनायां सूचिताः / तथा हि-ग्लानौ क्षुत्तृष्णयोरभिधानं विभावत्वेन केवलमतिप्रसिद्धत्वात् / कविनटोपयोगिलक्षणमेषां नातीवोपयुज्यत इति न लक्षिताः / 1. अनेन भवितव्यमिति // 2. तात् ख एव // 3. वितर्क // 4. भरताध्यायभेद //