________________ 10 . अर्थालङ्कारनिर्णयः गात्रं व्यायताङ्गविचेष्टितं निमीलितनयनं हिक्कावासोपेतमनवेक्षितपरिजनमव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् / अत्र श्लोकः / व्याधीनामेकभावो हि मरणाभिनयः स्मृतः / विषण्णगात्रैर्निश्चेष्टैरिन्द्रियैश्च विवर्जितः // अभिवातजे तु नानाभिनयविशेषाः / यथा शस्त्रकृते तावत् सहसा भूमिपतनविक- 5 म्पनस्फुरणादिभिरभिनयः प्रयोक्तव्यः / अहिदष्टे विषपीते वा नानाविषवेगाः / यथाकार्यवेपथुदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः / अत्रानुवंश्यौ श्लोको भवतः / कार्य तु प्रथमे वेगे द्वितीये वेपथु तथा / दाहं तृतीये हिक्कां च चतुर्थे संप्रयोजयेत् // फेनं च पञ्चमे कुर्यात् स्यात् षष्ठे स्कन्धभञ्जनम् / जडतां सप्तमे कुर्यात् अष्टमे मरणं तथा / / श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि / शस्त्रकृतवत् कुर्यादनपेक्षितगात्रसञ्चारम् // इत्येतन्मरणं प्रोक्तं नानावस्थान्तरात्मकम् / प्रयोक्तव्यं बुधैः सम्यक् यथाभावाङ्गचेष्टितैः // व्याधीनामेकभाव इति / एकत्वेन तुल्यत्वेन भवनमित्यनेन सर्वेभ्यो व्याधिभ्यो मैरणं भवदेकरूपत्वेनैवाभिनीयत इत्युक्तं भवति / यदि वा व्याधीनां यदेकत्वेन निष्प्रतिद्वन्द्रित्वेन भावनमनेन व्याधिना न मे निवर्तितव्यमित्येवं रूपं चित्तं तदेव मरणमभिनीयमानमुच्यते / स एव हि प्राणानां त्यागः / तेन म्रियमाणावस्थैव चित्तवृत्तिरूपेह विवक्षिता 20 न तु मृतावस्था / तत्राऽनुभावादेरभावात् / विषण्णानि च तानि अत एव निश्चेष्टानि गात्राणि तैः / इन्द्रियैर्वर्जितोऽभिनय इति सर्वेन्द्रियसम्मोहमाह / विषं पीतमनेनेति समासः / जातिकालसुखादिभ्य इति निष्ठातस्य परनिपातः // 31 // त्रासो नाम विद्युदुल्काऽशनिपातनिर्घाताम्बुधरमहासत्त्वपशुरवादिभिर्विभावैरुत्पद्यते / तं संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमाञ्चगद्गदप्रैलयादिभिरनुभावैरभिनयेत् / भवति चाऽत्र- 25 महाभैरवनादाद्यैस्त्रासः समुपजायते / - सस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् / / भीरून् जनान् त्रासयतीति भैरवः / शेष इत्यण / झटिति विधूननकारी चमत्कृति.... 1. विभाव, ख. एव // 2 सामान्याऽभिनयम् // 3. प्रकर्षेण लीनता //