SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः एतत्तु क्षतिमातनोति मनसो यद्वज्रधाराङ्किते ___ क्रौर्येच्छाप्रणयः प्रवङ्गनखरैः प्राप्तः प्रहस्तोरसि / इति / मनःक्षतिर्हि दौर्मनस्यं विषादानुभावः / ये च प्रवङ्गाः पलायनैकशरणाः पशवस्तेषामेवंविधे क्रौर्येच्छैवानुचिता / किन्तु तदीयः प्रणयो यावदभिलषितवस्तुपरिपूर्णतेति दैवकृतेयं सदुपायेनाऽपि फलासम्पत्तिरित्यनुभाव उक्तः / न चैतद्विषादस्य क्रोधव्यभिचा- 5 रित्वं युक्त्यागमानुभवैविरुध्यत इत्यलम् // 19 // औत्सुक्यं नाम इष्टजनवियोगानुस्मरणादिभिर्विभावैः समुत्पद्यते / तदीर्घनिःश्वसिताऽधोमुखविचिन्तननिद्रातन्द्राशयनाभिलाषादिभिरभिनयेत् / भवत्यपि च / इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या / चिन्तानिद्रातन्द्रागात्रगुरुत्वरभिनयोऽस्य // 10 उत्सूयत इत्युत्सूशब्देनाङ्कुरायभिमुखीभूतो बीजादिः / ततः प्रतिकृति'के' केऽणो हवे उत्सुक इति रूपम् / तस्य भाव औत्सुक्यम् / वियोगग्रहणं विप्रलम्भेऽस्य प्राधान्यं ख्यापयति / इष्टजनस्यालम्बनता / स्मृतेस्तूद्दीपनत्वमिति स्मरणग्रहणेन दर्शयति / शयनाऽभिलाषो विनाऽपि निद्रया भवतीति भेदेनोपात्तः // 20 // निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहारस्वभावादिभिर्विभावैरुत्पद्यते / 15 तामभिनयेद्वदनगौरवशिरोलोलनानेत्रघूर्णनजम्भणगात्रमदोच्छ्वसितनिःश्वसितसन्नगात्रताऽक्षिनिमीलनसर्वक्रियासम्मोहादिभिरनुभावैः / अत्रान्तरे आर्ये / आलस्यादौर्बल्यात् क्लमाच्छ्रमाचिन्तनात् स्वभावाद्वा / रात्री जागरणादपि निद्रा पुरुषस्य सम्भवति // तां मुखगौरवगात्रपरिलोलननयननिमीलनजडत्वैः / जम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः // दौर्बल्यं व्याध्यादिना क्षोणबलत्वं क्लमो धर्मादिकृतः // 21 // अपस्मारो नाम देवनागयक्षब्रह्मराक्षसभूतपिशाचादीनां ग्रहणाऽनुस्मरणोच्छिष्ट- / शून्यागारसेवनाऽशुचिकालान्तरातिपातधातुवैषम्यादिभिर्विभावैरुत्पद्यते / तस्य स्फुरितकम्पितनिःश्वसितधावनपतनस्वेदस्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयो- 25 क्तव्यः / भवति चात्र / भूतपिशाचग्रहणाऽनुस्मरणोच्छिष्टशून्यगृहगमनात् / कालान्तरातिपातादशूचेश्च भवत्यपस्मारः // 1. प्रहस्तोरसि / ख. // 2. मनःक्षतिरूपम् / मनःक्षतिलक्षणः / ख. // 38
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy