________________ 296 * कल्पलताविवेक .. कार्यविषयेऽप्रतिपत्तिरित्यनेन विवेकाभावो जडता / चक्षुामपि पश्यतः श्रोत्राभ्यामपि शृण्वत इति दर्शयन् मोहादस्याः स्वरूपान्तरं दर्शयति / अकथनं प्रश्ने कृतेऽप्युत्तरस्य अभाषणं तु सामान्येन सुहृदादौ वचनस्याप्रवर्तनम् / मोहादिति मोहात् पूर्व परतो वा भवतीति सम्बन्धः // 17 // B गर्वो नाम ऐश्वर्य-कुल-रूप-यौवन-विद्या-बलादिभिर्विभावैरुत्पद्यते / तमसूयाऽवज्ञाधर्षणानुत्तरदानाभाषणाङ्गावलोकनविभ्रमाऽपहसनपारुष्यगुरुव्यतिक्रमणाऽधिक्षेपणादिभिरनुभावैः / भवति चात्र / विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि / गर्वः स च नीचानां दृष्टयङ्गविचारणैः कार्यः॥ 10 विभ्रमः स्त्रीणां गर्वेऽनुभावस्तस्य लक्षणम् / .. विविधानामर्थानां वागङ्गाहार्यसत्त्वयुक्तानाम् / मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः // मदादेरुपलक्षगत्वाद्र्वोऽप्यत्र गृहीत एव भवति / स चेति चोऽवधारणे / ये पूर्व विद्यादिष्वयोग्यास्तेषां नीचानां तदाप्तौ गर्व एव भवति / भवत्येव च दृष्टयङ्गानां च 15 विविधैरेव. विकारपूर्वकैः सञ्चारणैरिति / तेन धारावाहितया स तेषां तिष्ठत्युत्तमानां तु क्षणद्युतिवद् भवत्येवेत्यावेदितमेव // 18 // .. विषादो नाम कार्यानिस्तरणदेवव्यापत्तिसमुत्थः / तमभिनयेत् सहायान्वेषणोपायविचिन्तनोत्साहविधातवैमनस्यादिभिरुत्तममध्यमानाम् / अधमानां तु विपरिबाधनाऽव.. लोकनमुखशोषजिह्वापरिलेहननिद्राश्वसितध्यानादिभिः / अत्रार्या20 कार्याऽनिस्तरणकृतश्चौर्याभिग्रहणराजदोषाथैः / देवादिष्टो योऽर्थस्तदसंप्राप्तौ विषादः स्यात् // वैचित्योपायचित्ताभ्यां कार्य उत्तममध्ययोः / निद्रानिःश्वसितध्यानैरधमानां तु दर्शयेत् // उपायैरप्यनुक्रान्तस्य कार्यस्य अनिस्तरणं फलासम्पत्तिर्यतस्तथाभूता या दैवव्यापत्ते25 रदृष्टप्रतिकूलताया विषाद इति वदन् दैवदोषजां सदुपायेभ्योऽपि फलासम्पत्ति विषादस्य विभावत्वेन सूचयति / क्रोधेऽयं न व्यभिचारीति केचित्तदसत् / दृश्यते हि रौद्रप्रकृतीनामपि विषादः- यथा रामाभ्युदये- . . 1. विरोघे //