SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ 10 अर्थालङ्कारनिर्णयः कुञ्जरोद्भमणकृतमपि त्वरितापसर्पणचपलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः / प्रियश्रवणकृतमप्यभ्युत्थानालिङ्गनवस्त्राभरणप्रदानास्रपुलकितादिभिः / अप्रियश्रवणकृतमपि उर्वीपतनवलनपरिवर्तितपरिभावितविलापाक्रन्दादिभिः / व्यसनकृतं तु सहर्षापक्रमणशस्त्रवर्मधारणगजतुरगाऽऽरोहणसम्प्रधारणादिभिः इत्येषोऽष्टविधो ज्ञेय आवेगः सम्भ्रमात्मकः / स्थैर्येणोत्तममध्यानां नीचानां चापसर्पणैः / / अत्रार्थे / अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य / शस्त्रक्षेपत्रासादावेगो नाम सम्भवति // अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावोऽस्य / सहसारिदर्शनाचेत् प्रहरणपरिघट्टनं कार्यम् // आविष्टहृदयानामेव प्रयोगयोग्यत्वादावेगः सर्वत्र प्रयोगे जीवितमित्याशयेन प्रतिविभावमस्यानुभावभेदेन प्रयोगवैचित्र्यं दर्शयति / तत्रोत्पातकृतो नामेत्यादिना / अतिक्रान्तापक्रान्ते चारों ताभ्यामपसदित्यर्थः / उत्क्रान्तमर्यादं भ्रमणमुद्घमणम् / अप्रियश्रवणे केस्यचिदावेगस्तत्र च शोकानुभावा एवोपर्युपरिपातिनः क्षिप्रगतयश्च पश्चात्तु शोकः, धीरस्य तु प्रथममेव शोक इति श्रीशङ्ककः / तच्चासत् / एवं ह्यावेगस्य स्थायित्वं स्यात् 15 शोकस्य च व्यभिचारिता / तस्मादधीरप्रकृतेः शोक उत्पन्न एव द्वितीय एव क्षणे आवेगेनाक्रम्यते / धीरप्रकृतेस्तु भवन्नप्यावेगो धैर्येणाऽवहित्थोचितेन संत्रियते न तु नोद्भवति / तथा च वक्ष्यति / स्थैर्येणोत्तममध्यानामिति / न च व्यभिचारिसाहचर्यरहिता काचिदपि स्थायिनो दशास्ति / न च स्थायिभित्तिसम्भववन्ध्याव्यभिचारिचित्रस्थितिः / अपसर्पणैरिति / बहुवचनं प्रकारसूचकम् / पलायनादिभिः प्रकारैरित्यर्थः / अपसर्पणं च कुचराग्न्यादिकृते 20 आवेगे भूयसा भवतीत्युपात्तम् / अप्रियनिवेदनाद्य आवेगोऽस्य विषादाश्रयोऽनुभाव इति वदनव्यभिचारिणो व्यभिचार्यन्तरे इत्थं स्थितिर्भवतीति दर्शयति / दर्शितं चैतदादावेवास्माभिः सहसेति / पूर्वमनुपलब्धा गमनस्यारेर्दर्शनाद्यद्यावेगः सम्भवति तदा प्रहरणपरिघट्टन चलनं कार्यम् // 16 // ___ जडता नाम सर्वकार्याप्रतिपत्तिः / इष्टाऽनिष्टश्रवणदर्शनं व्याध्यादिभिर्विभावैः 25 समुत्पद्यते / तामभिनयेदकथनाभाषणतूष्णीभावाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः / अत्रार्या इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् / तूष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः // 1. आवेगः // 2. अधीरप्रकृतेः / ख. // 3. स्थायि //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy