________________ 398 . कल्पलताविवेके सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च / निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे // देवादिभिः पिशाचाद्यन्तैहैर्यदनुस्मरणमधिष्ठानाय। हीनसत्त्वो वा तान् स्मरन्नपस्मारी भवति / ग्रहणं तु प्रतीतम् / अशुचेः सतः कालान्तरातिपातश्विरावस्थानम् / 5 धातूनां वातपित्तश्लेष्मणां वैषम्ये सति बुद्धिस्थाने समावृते सत्यपस्मारो यदाहुस्तच घीसत्त्वसंप्लवात् // 22 // सुप्तं नाम निद्रासमुत्थम् / तदुच्छ्वसितनिःश्वसितसन्नगात्रताऽक्षिनिमीलनसर्वे न्द्रियसम्मोहस्वप्नायितादिभिरनुभावैरभिनयेत् / भवति चात्र / निःश्वासैः सोच्छ्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः / / सर्वेन्द्रियसम्मोहात् सुप्तं स्वप्नैश्च युञ्जीत // निद्रासमुत्थमित्यनेन निद्राया एव गाढावस्था सुप्तमिति दर्शयनिन्द्राया विषयेभ्य उपरिरंसात्मकत्वं स्वरूपमाह-स्वप्नायितम् इति प्रलपनमिति लोके प्रसिद्ध, स्वप्नादसाधारण प्रलपति प्रलापाच्च तस्य तथा स्मृतिरनुमीयते लोकैः // 23 // 15 विबोधो नाम निद्राछेदाहारविपरिणामस्वप्नान्तशब्दस्पर्शादिभिर्विभावैरुत्पद्यते / तं जम्भणाऽक्षिविमर्दनशयनमोक्षणाऽङ्गवलनभुजाक्षेपाङ्गुलित्रोटनादिभिरभिनयेत् / अत्रार्या आहार विपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः / प्रतिबोधस्त्वभिनेयो जम्भणवदनाक्षिपरिमः // निद्राया नियतमर्यादावशादाहारपरिणामादिना विनाऽपि छेदो भवतीति पृथग् 20 निद्राच्छेद उक्तः / स्वप्नस्य योऽन्तः परिसमाप्तिः / शब्दादयस्तद्गता एवेति घण्टुकः। बाह्या एवेति युक्ततरम् // 24 // अमर्षो नाम विद्यैश्वर्यधनबलाधिकैराक्षिप्तस्यापमानितस्य वा समुत्पद्यते / तं शिरःकम्पनप्रस्वेदाऽधोमुखविचिन्तनाऽध्यवसायध्यानोपायान्वेषणादिभिरभिनयेत् / भवति चात्र / आक्षिप्तानां सभामध्ये विद्यैश्वर्यबलाधिकैः / नृणामुत्साहसम्पन्नो ह्यमर्षो नाम जायते // उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः / शिरःप्रकम्पस्वेदायैस्तं प्रयुञ्जीत पण्डितः / / 1. सुप्तस्य // 2. वैषम्यम् // 3. ज्ञापको हेतुः //