SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 290 कल्पलताविवेके ऽयमिति / 4 / मदो नाम मद्योपयोगादुत्पद्यते / स च त्रिविधः स पञ्चविधीवश्च / मात्रार्या भवन्ति। त्रिविधस्तु मदः कार्यस्तैरुणो मध्यस्तथाऽवकृष्टश्च / करणं पञ्चविधं स्यात्तस्याऽभिनयः प्रयोक्तव्यः // कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् / परुषवचनाभिधायी कश्चित् कश्चित्तथा स्वपिति // उत्तमसत्वः शेते हसति च गायति च मध्यमप्रकृतिः / परुषवचनाऽभिधायी रोदित्यपि चाधमप्रकृतिः // स्मितवदनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः / 10 सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः // स्खलिताघूर्णितनयनः सस्तव्याकुलितबाहुविक्षेपः / कुटिलव्याविद्धगतिमध्यमदो मध्यमप्रकृतिः // . नष्टस्मृतिहतगतिच्छदितहिक्काकफैः सुबीभत्सः / गुरुसञ्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः // रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य / कार्यों मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् / / सन्त्रासाच्छोकाद्वा भयाच हर्षाच्च कारणोपगतः / उत्क्रम्याऽपि हि कार्यो मदप्रणाशस्तथा तज्ज्ञैः // एभिर्भावविशेषैर्मदो द्रुतं संप्रणाशमुपयाति / अभ्युदयसुखैर्वाक्यैस्तथैव शोकः क्षयं याति // अवकृष्टो निकृष्ट इत्यर्थः / करणं क्रिया चेष्टा / तेन यैव पञ्चविधा चेष्टा स एव मदस्याभिनयः / स एव च भावशब्देन सूत्रे कथितः। तच्चेष्टापञ्चकमाह-कश्चिदित्यादिना। हर्षशोकहासक्रोधमोहानां मदेनैकस्थायिकत्वं दर्शयति / प्रकृतिभेदेन उत्तमस्तरुणमद एव मध्यमस्य मध्यम इत्यत्र न नियमः कश्चित् / अधमप्रकृतिरेव तु नष्टस्मृत्यादिस्वभाव इति / 25 अनेन च तरुणो मदः सर्वेषां मध्यमो मध्यनीचयोरुत्कृष्टो नीचस्यैवेति दर्शितं भवति / शेत इत्यतिपाने सतीत्यर्थः / हृष्टा सरोमाञ्चा तनुरस्याः / सुकुमारं कृत्वा आविद्धा ईषत् स्खलन्तीत्यर्थः / कविनटोपदेशायाह / रङ्गे पिबत इति / कारणया प्रेरणया प्रयत्नकृतया सन्त्रासादिनिमित्तज्ञापनया उपगत आयातः / एतदुक्तं भवति- त्रासादिनिमित्तमेव मदा 1. अनुभाव // 2. उत्तम // 3. अवकृष्ट // 15
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy