________________ 291 अर्थालङ्कारनिर्णयः दजानन् कथं त्रासादिना क्षीणमदः स्यात्तस्मात्तन्निमित्तपरिज्ञानं यत्नतो विधेयमिति / द्रुतमित्यनेनोत्क्रम्येति दर्शितं क्रमत्यागव्याचष्टे / प्रसङ्गादन्यदपि एवंजातीयकं दर्शयति / अभ्युदयसुखैरिति / अभ्युदयेन वाच्येन सुखयन्तीति तथोक्तानि / वाक्यग्रहणं प्रेमाणोपलक्षणम् // 5 // श्रमो नामाऽध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते / तस्य गात्रसंवाहननिः- 5 श्वसितमुखविकूणनविजम्भणाङ्गमर्दमन्दपदोत्क्षेपणादिभिरनुभावैरभिनयः प्रयोक्तव्यः। अत्रार्या। अध्वगतेायामान्नरस्य सञ्जायते श्रमो नाम / निःश्वासवदनखेदैस्तस्याभिनयः प्रयोक्तव्यः // 6 // आलस्यं नाम स्वभावखेदव्याधिसौहित्यगर्भादिभिर्विभावैः समुत्पद्यते / स्त्रीनीचानां तदभिनयेत् सर्वकर्मविद्वेषशयनाऽऽसनतन्द्री[द्रा]निद्रासेवनादिभिः / अत्रार्या / 10 आलस्यं त्वभिनेयं खेदोपगतं स्वभाव वाऽपि / आहारवर्जितानामारम्भाणामनारम्भात् // खेद इति श्रमो विवक्षितस्तेन भावो भावान्तरे विभावतां प्रतिपद्यते एवेति दर्शितम् / सौहित्यमतितृप्तता / आहारवर्जितानामिति / अलसोऽपि ह्यवश्यमाहारं करोत्येव / आरम्भाश्चतुर्वगोपायप्रवृत्तयस्तेषामनारम्भेग आरम्भव्यतिरिक्तेन शयनसेवनादिनेत्यर्थः // 7 // 15 दैन्यं नाम दौर्गन्यमनस्तापादिभिविभावैः समुत्पद्यते / तच्चाऽऽवृतशिरोगात्रगौरवमृजापरिवर्जनादिभिरनुभावैरभिनेतव्यम् / अत्रार्या / चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनता पुंसाम् / सर्वमुजानां परिवर्जनैश्च विविधैरभिनयोऽस्याः // चिन्ता नामैश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्यादिभिर्विभावैः समुत्पद्यते / तामभिनयेन्निः- 20 श्वसितसन्तापध्यानाऽधोमुखचिन्तनकार्यादिभिरनुभावैः। मजा शरीरसंस्कारः॥८॥ अत्रायें। ऐश्वर्येष्टद्रव्यापहारजनिता बहुप्रकारा तु / हृदयवितर्कोपगता चिन्ता नृणां समुद्भवति // सोच्छ्वसितैनिःश्वसितैः सन्तापैश्चैव हृदयशून्यतया / अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च // ऐश्वर्यभ्रंशस्तात्कालिकः / दारिद्रयं तु कुलक्रमायातमपि भवतीति विशेषः / चिन्तनं स्मरणमिति मन्तव्यम् / चिन्तानुस्मृतेरन्यैव / चिति स्मृत्यामित्यादि त्वदूरविप्रकर्षेणार्थ 1. प्रत्यक्षादि / ख. // 2. उद्वर्त्तनम् श्रमरूपः ख एव / -ऽऽलस्ये ख एव // मजा शरीर• संस्कारः // 8 // अयं पाठः कपुस्तके चिन्ता नाम ... इत्यस्मात् प्राग वर्तते // 3. प्रणिधानरूपा / /