________________ 110 अर्थालङ्कारनिर्णयः 287 इष्टजनविप्रयोगादारिद्रयाद् व्याधितस्तथा दुःखात् / / परवृद्धिं वा दृष्ट्वा निर्वेदो नाम सम्भवति // बाष्पपरिप्लुतनयनः पुनः पुनः श्वासदीननेत्रमुखः / योगीव ध्यानपरो भवति हि निर्वेदवान् पुरुषः / / निर्वेद इति दारिद्रयव्याध्यादिकारणजन्यो रुदितनिःश्वसितादीनां कारणं मनोविकारो 5 दुःखरूपो भावविशेषः / शेषेष्वप्येवं विवृतिः / तत्त्वज्ञानं चिरं भ्रान्त्या गुणितहानोपादानादिप्रेबन्धस्य भ्रमनिवृत्तौ सत्यां धिङ् मां वृथा भ्रान्तमिति निर्वेदं जनयति / यथा वृथा दुग्धोऽनड्वान् स्तनभरनता गौरिति चिरं, परिष्वक्तः शण्ढो युवतिरिति लावण्यरहितः / कृता वैडूर्याशा विकचकिरणे काचशकले, मया मूढेन त्वां कृपणमगुणज्ञं प्रणमत // सम्प्रधारणं यद्यपि वितर्को भावान्तरं तथापि तदनुभावानामत्रानुभावत्वं मन्तव्यम्। न तु व्यभिचारी व्यभिचार्यन्तरेण युज्यते इति / दृष्ट्वा निर्वेदः सम्भवतीति कृदन्तनिर्वेदशब्दान्तर्गतक्रियापेक्षं दृशेस्तुल्यकर्तृकत्वमिति क्त्वाप्रत्ययः / निर्वेदवान् पुरुष इति मतुपा इदं दर्शयति न खल्वमी निर्वेदादय इदन्तया घटादिवदवभासन्तेऽपि तु अहं निर्विण्ण 15 * इत्याश्रयपारतत्र्येणैव / विवेकेन तूध्रियन्ते, यस्मिन् सत्येवं प्रतीतिः स आन्तरो विकारो निर्वेदः / एवमन्यत्र / अयं च निर्वेदः स्वयं पुरुषार्थसिद्धये वोत्साहरत्यादिवदत्यन्तानुरञ्जनाय वा हासविस्मयादिवन प्रभवतीत्यन्यमुखप्रेक्षित्वाद् व्यभिचार्येव एवं शेषेष्वपि वाच्यम् // 1 // ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापाऽतिपानमदनसेवनाऽतिव्यायामाध्वगमनक्षुत्पिपासानिद्राछेदादिभिर्विभावैरुत्पद्यते / तस्याः क्षामवाक्यनयनकपोल- 20 मन्दपदोत्क्षेपणवेपनाऽनुत्साहतनुगात्रवैवादिभिरनुभावैरभिनयः प्रयोक्तव्यः / अत्रानुवंश्ये आर्य भवतः / वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः / कार्येन साऽभिनेया मन्दक्रमणेन कम्पेन // गदितैः क्षामक्षामैनेत्रविकारैश्च दीनसञ्चारैः / श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् // वान्तं विरिक्तमिति भावे क्तः / मदनसेवनं सुरतसेवा / वाक्यं नयने कपोलौ चेति क्षामाणि / वाक्यस्य क्षामत्वं स्वरस्य नीचत्वात् / मन्दं कृत्वा पदोत्क्षेपणं तत्सहचरितं 1. पुंसः //