________________ 286 कल्पलताविवेक तमसा इति पापेन / अदृष्ट-इति पुण्यजनितम् / स[?]. 52] / दयन्तिण इति दयमानेन दयां कुर्वतेत्यर्थः / [ 53 का] उपमानान्तरे अपि तु प्रसिद्धं यदुपमेयं तस्यैवोपमानत्वविवक्षयेत्यर्थः। तत्कल्पनायामपि इति / उपमानत्वकल्पनाऽपि तिरस्कारहेतुरित्यर्थः [रू ?) / अत एव इति / निन्द्यतेऽ5 नुकम्प्यते वेत्येताभ्यामभिसम्बन्धः / एतदेव इति विपरीतार्थप्रत्यायनमेव [54] / संपृक्तम् इति / योगार्थोऽयम् [55 का] / उक्तम् इति / भामहेनेत्यर्थः / [ 56 रू[?]] यस्मिन्नेकगुणानाम् इति / यत्राऽभिन्नवर्णानामर्थानां सम्बन्धे सत्यनेकरूपत्वं न लक्ष्यते स तद्गुणोऽलङ्कारः स्यात् / स एव गुणो यत्र इति तद्गुणः / कदाचिदुग्धो दकतुल्यास्तेऽर्थाः स्युस्तदवश्यं संसर्गान्नानात्वं लक्षयितुमशक्यमित्याह- योगलक्ष्य10 रूपाणाम् इति / यत्र योगे सति रूपं लक्षयितुं शक्यमथ च न लक्ष्यते इति [ 57 का] / या न इति या न चीयते नापचीयत इत्यर्थः। आहतेन इति अध्याहृतेन [58-59] / आश्रयाः इति / वागङ्गाभिनयद्वारेणैव स्थायिव्यभिचारिणां प्रतीतेः / अत एव व्याचष्टे-प्रतीतिहेतवः इति / वागाधभिनयसहिताः इति / वागाद्यभिनयाश्रया एव सन्तो विभाव्यन्ते / न तु निराश्रया एकका इत्यर्थः / यदि हि वागाद्यभिनयाविशिष्टतया न 15 ज्ञायन्ते तदा स्थायिव्यभिचारिणोऽपि तथा न ज्ञायन्त इति / अनुभवन् इति स्थायिव्यभि चारिलक्षणं चित्तवृत्तिविशेषं साक्षात्कुर्वन् साक्षात्कार्यत इत्यर्थः / यदि वा इति पूर्व हि सामाजिकः प्रयोज्य उक्तः / इदानीं तु सामाजिकगतः स्थायिव्यभिचारिलक्षणश्चित्तवृत्तिविशेषः / स एव च सामाजिकस्य साक्षाद्भवन् साक्षाद्भाव्यते साक्षात् क्रियते इति / येन इति व्याख्यानद्वयेऽपि सम्बन्धनीयं सोऽनुभाव इति तस्मादित्यर्थलब्धम् / तेनेत्थं 20 योजना वागङ्गसत्त्वानामभिनयैरभिनयप्रकारेण यस्मादर्थोनुभाव्यते तस्माद्वागङ्गोपाङ्गसंयुक्तः स वाचिकादिरभिनयप्रकारोऽनुभाव इत्यर्थः / निर्वेद इति / तत्र निर्वेदो नाम दारिद्र्यव्याध्यपमानाऽधिक्षेपाकृष्टक्रोधताडनेष्टजनवियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते / तमभिनयेद् रुदितनिःश्वसितोच्छ्वसितसम्प्र धारणादिभिरनुभावैः / भवति चात्र श्लोकः / 25 दारिद्र्येष्टवियोगैस्तु निर्वेदो नाम जायते / सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् // अत्रानुवंश्ये आर्ये भवतः / 1. विशिष्टयता / ख. पुस्तके एव //