SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ 285 अर्थालङ्कारनिर्णयः कारकभावस्याभावात् / कृष्ण इति / अत्र सेवनाध्यापनक्रियाभ्यां द्वौ कारकभावौ उपकार्योपकारकेति प्रतीयमानात् / अभिधीयमानः इति छलेनेत्यनेन / प्रतीयमानः इति निर्दोषमित्यनेन / एभिः इति प्रत्यक्षनिर्देश्यैः / व्यतिकरण इति छुरणेन मिश्रणेनेत्यर्थः [ // 40 / का॥] . तत्र वा इति प्रश्ने वा। एतद् इति उत्तराभिधानमलङ्करणम् / उत्तरस्य इति / प्रतिवचनस्य / ताद्रप्य इति / काव्यलिङ्गताऽनुपपत्तेः / अत्रैव हेतुमाह नहि इति / एकधर्मी इति प्रश्नो ह्यन्यत्र प्रतिवचनं चान्यत्रेति / धीरम् इति धैर्यम् / दधि इति दध्यादीनां धर्मित्वं प्रसिद्धमेव / तृतीयया यदङ्गत्वं तेन धर्मरूपतेत्यर्थः / अविशेषेणैव इति सामान्येनैव / / 41 का / / केनचिद् इति। असिलतालेखनादिना [रू?]। उपपत्तिमदिति च इति 10 सर्वत्राऽप्रतिहतप्रसरत्वादयो बुयादिगता ये धर्माः प्रतिपादयितुमिष्टास्तेऽपि देवदत्तादाबुपपद्यन्त इत्युपपत्तिमदितिवदनेन प्रयोजनदर्शनमुपपन्नमिति / हेत्वलङ्कारे तु इति / सूक्ष्मे उपादानात्मिका लक्षणैव नोपचारः / हेतौ तु कार्यकारणभावलक्षणापुरःसरो वस्त्वन्तरे वस्त्वन्तरोपचार इत्यर्थः / संवृति इति नालङ्कारान्तरताम् / सूक्ष्मगुणाद इति / सौम्यमित्युच्यते तत्तु यत्सूदमार्थस्य दर्शनमित्येवं लक्षितात् सौदम्याभिधानादर्थगुणात् सूक्ष्मार्थात् 15 प्रत्यक्षार्थाच्च स इङ्गिताकारलक्ष्योऽर्थोऽसूक्ष्मोऽप्रत्यक्षश्चेति सूक्ष्मं भिद्यते / दर्शनमित्यनेन हि प्रत्यक्षार्थत्वं सौक्ष्म्यगुणस्योपदर्शितम् सामाइइं इति / श्यामायते // 42 / रू? // ] सर्वस्माद् इति अनेकस्मात् / सर्वस्य इति / अनेकस्य / [ // 43 / 44 // ] . ___ यत्र पुनरमाकरणिके इति / यत्रोपमानादुपमेयं प्रतीयते सा समासोक्तिरिति ह्युक्तम् / तत्राप्राकरगिके प्राकरणिकधर्माध्यासेनाऽप्युपमानादुपमेयस्य प्रतीतिर्विवक्षितेति न 20 तल्लक्षणव्याघातः / समानमिति इति / यस्य हि धर्मिणोऽध्यासस्तेन किलाऽप्राकरणिकेनैव भवितव्यम् / तस्य चाध्यासे कुत एतदभिधातुं शक्यते इयं समाध्युक्तिरियं तु समासोक्तिरित्यभिप्रायः / एकत्र इति समाध्युक्तौ अध्यारोप्यस्य धर्मिणः प्रतीयमानतेत्यर्थः / अन्यत्र तु इति समासोक्तौ पुनरभिधीयमानतेत्यर्थः / दिवसादिभिः इति उपमेयभूतैः। // 45 // 46 // ] एवम् इति / यथा कार्यकारणयोर्गुणक्रियाविरोधे विषमस्तथा हीनस्याधिककार्य- 25 करणेऽधिकस्य स्वल्पमात्रस्याऽपि कार्यस्याकरणेऽपि विषमो भवति / एतेन भट्टरुद्रटोक्तं भेदान्तरचतुष्कमपि सङ्ग्रहीतमस्मिन्नुभये भेदचतुष्कस्यान्तर्भावसम्भवादित्यभिप्रायः रू?]। ततः कार्याद इति / ततः कुतश्चित् कार्यादेतोरित्यर्थः / [47.48.49.50.51 ॥स !]
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy