________________ 284 कल्पलताविवेके तद्विशेषण इति स्वविशेषणयोग इत्यर्थः / सम्बोधनमपि इति न केवलं समासकृत्तद्धितादयः / सम्बन्धीति इति क्रियाकारकसम्बन्धीति परिकरलक्षणे यत् सम्बन्धिपदं तेनेत्यर्थः / दिवसम् इति कालाध्वनोरत्यन्तसंयोगे इति द्वितीया / उपमानाद् इति उपमान5 भावात् / पियसंगमम्मि वि इति / प्रियस्य वल्लभस्य संगमः संयोगः प्रियोऽभिमतश्च सङ्गमः सम्भेदो नद्योरिति मदन -इति विरोधपक्षे मदनाय मदनसन्तापनिवृत्त्यर्थमितरत्र मदकारि यदादेकप्रसाधनम् / पर्वत -इति / 'द्वे पदे एकं च पदं नरकस्य दानवविशेषस्यापि / बहु इति द्वे पदे / एकं चै पदं हरिम् इति शक्रं कृष्णं केसरिणं च / अर्थकावल्या इति इति विशेषरूपया। कतकारकम् इति सामान्यरूपम् / / कस्य दोषोऽयम इति तवैवेत्यर्थः। 10 सर्वनामभिः इति सा अहमित्येताभ्याम् / असर्व -इति अम्बेत्यनेन [ // 36 / / का // ] कस्याश्चिद् इति अप्रकृतानामेव यत्र धर्म इति / प्रकृतस्यैव इति / प्रकृतयो रोमाञ्चवेपथ्वोरपलापमात्रमत्रास्ति न चान्यदप्रकृतं किञ्चित् साधितमिति प्रकृतस्यैव सद्भावः / प्रकरणविशेष इति / सन्ध्यादिवसवृत्तान्तोऽत्र प्रकृतो नायकव्यवहारो वेति विशेषस्याऽनव गतिः / द्वयोः इति द्वयोमध्यादेकस्याऽन्यतरस्य समासोक्तेरप्रस्तुतप्रशंसाया वेत्यर्थः / 15 एतदेव इति / निगृहनलक्षणमेव / // 37. का / / ] प्रतिपायेन इति बोद्धव्येन / प्रमाणान्तर- इति शब्दप्रमाणव्यतिरिक्तप्रत्यक्षादिप्रमाणावसितम् / किमासेव्यम् इति / अत्र स्त्रीनितम्बकामिनीकल्मषधनानि व्यपोह्यार्थाः / कौटिल्यम् इति / अत्र तु मानसपरपुरुषशेषाङ्गस्वभावाः [रु.] / किं सुखमपारतन्त्र्यमिति / अत्र सुखं गुणोऽविनाशित्वगुणयुक्तं धनं च द्रव्यं पृष्टमन्यत्रापि ज्यादौ विद्यमानमपारतन्त्र्ये 20 विद्यायां च कथितम् / अन्यत्र तदभावः प्रतीयते / अपारतन्त्र्यमेव सुखं न तु स्त्रीभोजनादि, विथैव चाविनाशि धनं न भूहिरण्यमित्यर्थः / तथा कि कार्यमित्यत्र द्विजनृपकर्तृका क्रिया पृष्टा, अन्यत्राऽपि कार्ये सती सन्तोषमहेच्छतयोर्नियमार्थ कथिता / विप्रेण सन्तोष एव कार्यो राज्ञा च महेच्छताऽसन्तोष एव न तु विपर्यय इत्यर्थः / जातावुदाहणं यथा-के ब्राह्मणा येषां सत्यं दम आनृशंस्यं चेति / अत्र च इति कौटिल्यमित्येतस्मिन् / अनेक 25 इति चतुर्णामित्यर्थः / एवं जातिव्यक्रियास्वप्युदाहार्यम् [ // 38 रु[का]॥] पूर्वार्थात् इति / विनयनिर्देव्यत्वादेः [ // 39 रु[का] // ] निमित्तखम् इति साधनत्वम् / नातिप्रसङ्गः इति / स्फारिततत्त्वविशेषस्य 1 षयो [?] विशेषणपक्षे / इन्द्रविशेषणपक्षे पर्वतभेदि पवित्रमिति जलविशेषणपक्षे द्वे पदे इन्द्रपक्षे एकं पदम् / ख पुस्तके एव // 2. जलविशेषणपक्षे / सिंहविशेषणपक्षे ख पुस्तके एव //