________________ 283 अर्थालङ्कारनिर्णयः न्युपात्तानि न तथा प्रतीतिमाधातुमलम् / अविनितेत्थम् इति / ऋजुत्वे हि सति यदिष्यते न तत्र युक्तमयुक्तं वेति विकल्पविघ्नान्युपतिष्ठन्ते / आर्जवत्यागेच्छया इति / ईदृग्गुणगणकलितमृजुत्वं शब्दवृत्त्या यद्यपि स्वीकर्तुमिष्टमिह प्रतीयते तथाऽपि वस्तुतो दुष्टमेव तदिति कथमिष्यते अपरस्यामनुरक्तोऽपि हि जनः स्वात्मनि सानुराग एव यत्र प्रतीयते तदार्जवं कथमिव सगुणं भवेत् कीदृशी हि तत्र रतिः रत्याभास एव सः / तदवश्यं त्याज्य- 5 मेवार्जवमित्यभिप्रायः / 'स इति विभीषणः / मारुइ इति / मारुतेर्लब्धो यः प्रत्ययस्तत आगतो हर्षो यत्रालिङ्गने तत्तथेति / उन्मूलियाण इति / उन्मूलितानां खण्डितानि उत्खातानामृज्वपसृतानि नीयमानानां निःशेषेणायतं दीर्घ कृत्वा निर्यातानीति गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि तादवस्थ्यमापन्नानीत्यर्थः / अप्रयोजका अपि इति विशेषणानामित्यर्थः / 10 तादयन इति क्रियार्थत्वेन / गेहाजाता इति / उदकं हत्तुं मझ्यामि इति गाश्च सन्दातुं कुम्भमच्छं वासो दाम च समादाय गृहानिःसृता अथ च प्रदेशान्तरमागच्छसि न सरितं, श्रयसि यमुनातीरवीरुद्गृहाणि न यमुनाम् / विशसि गोवर्द्धनगिरिविपिनानि न गोष्ठम् , तत् किं त्वं देवकीनन्दनस्य दृशि निपतिता नूनं त्वया कचिदपि स युवा कदाचिद्दृष्टोऽधुना च त्वं तमलभमाना विसंस्थुलमेवमाचरसीत्यत्र तात्पर्यम् / एवम् इति / यथा 15 क्रियार्थत्वेन तथा क्रियाविषयत्वेनेत्यर्थः / / अध्ययन इति णमुलन्तेनेत्यर्थः / स्तनोपपीडम् इति / अत्र सप्तम्यां चोपपीडरुधकर्ष इत्यनेनोपपूर्वात् पीडधातोस्तृतीयान्ते उपपदे णमुल् प्रत्ययः / चकारात् तृतीयान्तोपपदलाभः / एवम् इति / अपरणमुल्पकारोपदर्शनपरम् / एतेन इति पूर्वं ह्यनुप्रयोगे विशेषरूपमन्तरङ्गं विशेषणं सामान्यरूपायाः क्रियाया विशेषकं विशेष व्यवस्थापकं व्याख्यातम् एतेनान्तरङ्गविशेषणस्य विशेषव्यवस्थापकत्वव्याख्यानेन / 20 किचिद्विशेषापेक्षबहुत्वयोगाद् बहुत्वेऽपि व्यवस्थापकं भवतीति व्याख्यातमेवेत्यर्थः / . आन्तर इति बहुत्वविशिष्टान्तरविशेषणयोगात् / भेदपरिग्रहाद् इति बहुप्रकारविशेषस्वीकारात् / बाह्यम् इति बहिरङ्गम् / आवृत्तिरूपेण इति / एकं वारं द्वौ वारौ त्रीन् वारानित्येवं या आवृत्तिस्तद्रूपेणेत्यर्थः / अविचलितस्वरूपमेव इति बाह्यविशेषणविशेषणमेतत् / प्रधानम् इति उक्त इत्यादिरूपम् / अनेकवारमित्यर्थ इति कृदर्थे इत्यर्थः / 25 क्रियाविशेषणेन इति तद्धितेनेत्यादिना / शतृलक्षितया इति लक्षणहेत्वोरित्यनेन शत्रन्तभ्रमिलक्षितयेत्यर्थः / एतेन इति / यत्तदोर्विपर्ययेण तयोरेवान्यविशेषणयोगेन च / 1. स ख. 2. निमूलकाषमित्येवं रूपम् / 3. कषतीत्यादिकायाः / खप्रतावेव // 4. क्रियायाः सम्बन्धि यत् बाहयमिति विशेषणं तस्य विशेषणम् //