________________ 10 कल्पलताविवेके द्रव्यवद्भावः / तद्विवक्षायाम् इति / अविवक्षितत्वाद्विनाऽत्र समासः कृतः / च योगेऽपि इति / चयोगसमुच्चयः प्राक्प्रदर्शितः इतरेतरादीनपि तद्भेदत्वेन सम्प्रत्युपदर्शयति-विचिन्त्यमानमित्यादिनैव इति / इदम् इति सर्वनाम्ना हि नपुंसकेनैकवचनान्तेन च परस्पर सव्यपेक्षत्वे निशादयः क्रोडीक्रियमाणाः समाहारस्यैव विषयो भवितुमर्हन्ति / परस्पर5 सव्यपेक्षत्वेन तत्क्रोडीकरणाविवक्षया तु समुच्चयप्रभेदता प्रदर्शितेति न कश्चिद्विरोधः / एवमपरेऽपि समाहारे च योगा द्रष्टव्याः / भिन्नो भवति इति / समुच्चयाद् अन्वाचयस्य स्वरूपान्यत्वमात्रप्रतिपादनपरमेतत् / परमार्थतस्तु नान्यः समुच्चयादिति द्विपदाश्रय उत्तरपदाश्रितद्योतकत्वेन समुच्चयभेद एवायम् / युज्यते इति प्रयुज्येते इत्यर्थः / इह इति अन्वाचयप्रस्तावे / ___ एकस्यैव इति / यथा हि परिवृत्तौ मरुल्लास्यं त्यजति लताथोपाददते इत्येवमेकस्यैव हानोपादाने विवक्षिते / न तथा अत्र इति / अत्र हि नतभित्तिगृहस्य हानमेव विवक्षितम् [ // से // ] / प्रथमे हि भाव इति / तत्र हि मञ्जरीयुक्ततरुणदर्शनं कर्तृभूतम् / अये एष कामुकः सङ्केतस्थाने समागतोऽहं च गृहव्यापारख्यग्रा इहैव स्थिता तन्मे मन्दभाग्यायाः सम्भोगसुखावाप्तिर्न निर्वृत्तेति तदभिप्रायाविष्करणपूर्वकं मुखमालिन्यं तस्याः 15 समुत्पादयति / तच्च सम्भोगाप्राप्तिरूपं तदभिप्रायं प्रतिपत्तुर्गमयति / स चाभिप्रायो मुखमालिन्यस्य कार्यस्यान्तरङ्गकारणरूप एव भवितुमर्हतीत्येवमुक्तं कार्यरूपोऽर्थः कारणं गमयतीति / द्वितीये तु इति / तत्रापि हि भयाभावसाभिलाषत्वादिः कारणरूपतां निविंशङ्कसम्भोगसुखास्वादाभिसन्धिश्च कार्यरूपतां न कदाचिद् व्यभिचरतीत्येवमुक्तम्-कारणरूपोऽर्थः कार्यमिति / उदांभिधानेन इति / उदर्कः फलमुत्तरम् / तच्चात्र रहसि निर्विशङ्कसम्भोग20 सुखास्वादः / तस्य च मिषतो विनिर्यय इत्यनेन स्फुटीकरणादभिधानमिति / आकाङ्क्षा इति / किमत्र तात्पर्यमिति [ // 34 // ] नदर्शितम् इति / यथा रुद्रटेनेत्यर्थः / आवानः इति ईषच्छुष्कैः / लयेन इति श्लेषणेन मीलनेनेति यावत् / अत्र हेतवः पञ्च / तैश्चारादुत्प्रेक्षमाणा दूरत एवानुमीयमानेत्यर्थः / मारिखडिए इति / मारी देवताविशेषस्तत्र पतिते इत्याक्रोशगर्भ सम्बोधनम् / // 35 // ] 25 अत्र भानुदीधिति इति। अत्र ह्येकमिति नवत्वमिति च प्रधानाभिनवत्वपर्यायतया प्रयुक्ते अपि विशेषणे शब्दच्छलेन किलैकत्वनवत्वसङ्ख्ये प्रतिपादयिष्यतः जननयनभुवनब्रह्माननादिसङ्ख्यया किल द्वित्वादिसङ्ख्या द्वे इत्यादीनि विशेषणानि प्रत्याययिष्यन्तीति भानुदीधितिशतानामेकादिक्रमेण दशेति सङ्ख्याप्रतीतये यान्येकमित्यादीनि विशेषणा 1. ख पुस्तके एव // 2. बहिरङ्गकारणम् // 3 तरुण // 4. नायिका //