________________ अर्थालङ्कारनिर्णयः रेकाद्वस्तुवृत्त्या न भिद्यते, तथाऽपि शब्दवृत्तेनोभयव्यतिरेके भेदमात्रमुक्तम् , असदृशव्यतिरेके पुनराधिक्यमित्यनयोर्भेदेनोपादानमविरुद्धमिति / उपचरित- इति उपचरितभेदा चासावात्मव्यक्तिश्च तस्याः प्रेयानिति / अत्र वृषो धर्मोऽपि भूतिर्विभूतिरपि दुर्गाया विषमाया अपि भूधरभुवो भूधरभूमेरपि करो राजभागोऽपि परमेश्वरः परमैश्वर्ययुक्तोऽपि वाहिनीशः सेनापतिरपि / विषादी विषमत्तीति विषाद- 5 वांश्च / ताभ्यां चेति / शब्दोपात्तनिर्मलेन्दुताविराजमानत्वविकचाजताशोभमानत्वधर्माभ्यां प्रतीयमानमहत्त्वाह्लादकत्वधर्माभ्यां च नभःसरोभ्यां सह प्रतीयमानसादृश्ययोरिति सम्बन्धः। मुखं चन्द्र- इति महत्त्व- इति च करणे तृतीया / राममुखस्य हि चन्द्रेण लक्ष्मगमुखस्य च कमलेन रूपणम् / चिन्त्यः इति / स्पर्द्धितुं योग्यः सम्भाव्यत इति यावत् / अत्रभवान् इति पूज्यः / शाखासु इति पागावित्यर्थः / तयोः इति भुजप्रयागविटपिनोः / 10 इमावेव इति / भुवनत्रय- इति, स्वकायान्तः इति च / एवंप्रकारः इति / भुजकल्पद्रुमयोरेकव्यतिरेको भुजप्रयागविटपिनोहरिकृपागयोश्च सदृशव्यतिरेकाविति त्रयात्मकः / कार्यस्य इति कर्तव्यस्य / अशक्यवक्तव्यत्वम् इति वक्ष्यमाणविषयस्य लक्षणम् / अतिप्रसिद्धत्वम् इति चोक्तविषयस्य / अवियारिय इति / या अन्यासक्तमपि भवन्तमभिलषति / न भणिस्सम् इति / त्वदप्राप्त्या तास्तास्तदवस्था अनन्ता या वक्तुमपि न शक्यन्ते इत्य- 15 स्यार्थस्य प्रतिपत्तये / किमनेन इति / त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गब्यापारहेतवस्तस्या भवन्तीत्यतिप्रसिद्धोऽयमर्थ इत्यस्य प्रतिपादनाय। नात्यन्ताय इति प्रतिषेध इवेत्यस्यार्थोऽयम्. नात्यन्तं प्रतीतिप्रतिषेधाय प्रतिषेधः / समुद्रोपमो भवानिति इति / अस्य च पर्यवसितोऽर्थः समनन्तरमेव समुद्रोपमानेत्यादिना स्फुटयिष्यते / रक्तपटः इति / अत्र हि भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति कारक- 20 पदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियाऽभिनिवर्तकस्वक्रियासम्बन्धात् साध्यायमानतां प्राप्नुवन्ति / ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयत इति प्रमाणान्तरादवगतम् / अत एव भूतं सिद्धं पटभवनं भव्याय साध्याय रक्ततावगमनायोपदिष्टमिति रक्ततावगमनपरत्वं वाक्यस्येत्यर्थः / अवान्तर- इति अङ्गभूतत्वादित्यर्थः / इच्छा कर्म इति / इष्यत इति कृत्वा / तेन इति निषेधेनेव / इयदास्ताम् इति इयदेवास्तामित्यर्थः / 25. प्रत्यक्ष- इति / प्रत्यक्षनिर्देश्योऽर्थोऽशेषविशेषावच्छिन्न एव भवति / अतिशयोक्ति- इति / स्मरमाहात्म्यविशेषोक्तेः समुद्राम्भः कुम्भमानरूपत्वेनाध्यवसाने भेदेऽप्यभेद इत्येवमात्मिकया / अनन्वयेऽपि इति / तत्र हि वर्णनीयस्य सदृशमन्यन्नास्तीत्युपमानान्तरप्रतिषेधे, 1. भवतीति भव्यं, भव्यगेयेत्यादेनिपात्यते //