________________ 268 कल्पलताविवेक तुल्यार्थविहितवतिना च योऽयमार्थः क्रमः सामर्थ्यापरपर्यायार्थशब्दलब्धः आकारप्रश्लेषादार्थशब्दलब्धो वा तेन / आक्षिप्ते इति इवादितुल्यादिपदविरहेऽपीत्यर्थः / समारोप -इति / भास्वतेव भास्वतेत्यर्थः / एवं षड्भिरुदाहरणैरन्यान्यप्यष्टादश द्रष्टव्यानि / वृषः इति धर्मो दानवविशेषश्च / अर्थः इवशब्दादिः इति / पदार्थव्यपदेशं शब्दोऽप्यवाप्नो5 तीति कृत्वा / सितासिते इति / अत्र पक्ष्मवती इति ताम्रराजिनी इति च समानधर्मोपादानम् / पदम रोमविशेषः किञ्जल्कश्च / दग्ध्वापि इति / अत्र कामरूपदाहादयः समाना धर्माः / भङ्ग्या इति / ये साधवस्ते गुणदोषनरपेक्ष्येण परोपकारख्यसनिनः, यथा दिवसो नलिनविषये इति रागिणि नलिने इत्यादिना विशेषेण समर्थकेन सतां परोपकारख्यसनितायाः सामान्यभूतायाः समर्थनरूपया / द्वयोरेव इति / अर्थान्तरन्यास10 व्यतिरेकयोरेव / न निन्दा इति / निन्द्यस्य प्रमाणान्तरेण निन्द्यत्वेन नितित्वात् , निन्दायां सत्पुरुषाणां प्रवृत्त्यनुपपत्तेश्च / यदा त्वयम् इति इतख्याख्याद्वयोपक्रमः / सोऽपि इति / व्यतिरकहेतुत्वाद् दृष्टान्तोऽपि व्यतिरेक उक्तः / सत्यम् इति / अत्र प्रसन्नसुभगत्वं साधारणधर्मो न पृथक् प्रयुक्तः / प्रसिद्ध एव इति शुक्लादिः / अत्र इति / अत्र गुणावपि दोषावपि न्यस्ता15 वित्यर्थः / कथम् इति / प्रियाविरहो ह्यनभ्यर्णवर्तिनमपि दहति, न च शाम्यति / किमिति विषं हि तदात्वे स्वदते बाधितं च शाम्यति / सत्यम् इति / अत्राभिधीयमानगुणो व्यतिरेकः। एष चार्थः स्वयमेव न तु चेत्यादिना आक्षिप्य निष्यते / स्वादोः इति रससम्पदः / स्वादोः पदममृतमिति सम्बन्धः / चिन्ता व्याजम् इति चिन्ताव्याजेनेत्यर्थः / उपमान -इति कुवलयवनलक्षणस्योपमानस्येत्यर्थः / उपक्रमम् इति मन्यते इति सम्बन्धः। उपमाने 20 इत्यादि / उपक्रमस्यैव स्वरूपकथनम् / तेन वाच्यायमानगुणातिरेकत्वादुच्यमानगुणातिरेकः, न गम्यमानगुणातिरेको व्यतिरेक इत्यस्याभिप्रायः / / प्रकृष्टभुजङ्गत्वम् इति प्रकृष्टधूर्तत्वम् / अनया इति श्लेषे च लोपकल्पितया / छायया इति / न तु वस्तुवृत्या / तथाविधार्थ इति गुणीभूतात्मनो वाक्यार्थस्येत्यर्थः / विवक्षितार्थ इति / विवक्षितोऽर्थः पयोधौ कम्पनिमित्तवितर्कधारणोत्प्रेक्षालक्षणः / वाक्य 25 -इति / वाक्यार्थसामर्थ्यम् / प्राक्तन- इति / प्राक्तनधर्मेंविशिष्टतरो यो देवतावतारस्तद्भावप्रतिपादनपरागीत्यर्थः / प्रस्तावाद इति / उपमाश्लेषयोरनन्तरमेव व्यतिरेकस्य प्रस्तुतत्वादित्यर्थः / तस्मादेव इति / येन वासुदेवादिना रूपणं कृतम् / द्वादशपकारः इति / सदृशासदृशोभयव्यतिरेकस्य एकसदृशव्यतिरेकसङ्करस्य च विविक्तसदृशव्यतिरेकादिभेदग्रहणेनैव सङ्ग्रहीतत्वात् द्वादशप्रकार एवेत्यर्थः / उभयव्यतिरेको यद्यप्यसदृशव्यति