________________ 267 अर्थालङ्कारनिर्णयः जिज्ञासालक्षणा च / यत एकेन इति / यथा हि दीप एकेन छात्रेण प्रयुक्तोऽपरेषामपि साधारण्यात् प्रकाशं करोति, तथा क्रियादिकमपि प्रकृतेन केनचिदवान्तरवाक्येन एकेन संयुक्तं सदपरेषामप्यप्रकृतानामवान्तरवाक्यानामाकाङ्क्षापूरकं भवतीत्यर्थः / अवान्तरवाक्येन इति प्राकरणिकार्थवाचिनेत्यर्थः / क्रियान्तराश्रवणाद् इति / क्रियाविशेषाश्रवगाद्या चासिप्रभृतिः क्रिया सा सर्वाऽपि वाक्यपरिसमाप्तिमेव प्रत्याययति / 5 तद् इति / पङ्क्तिसंस्थम् / एतस्माद इति / यतो दीपकं दीपयत्यनेन प्रकारद्वयं प्रदर्शितम् / एकश्च प्रकारो मौलः इति / दीपयत्यन्यत्तदन्यदिति इति / एतेन श्लोकार्द्धम् उट्टङ्कितम् / तद्दीपकं कर्मभूतं तेषामिति अन्यत् कर्तृभूतं श्रिय इति दीपयति / अन्यदपि च कर्मभूतं ताः इति / अपरं कर्तृभूतम् अचापलम् इति / दीपयतीति सम्बन्धः / / एनमेवाइ- अन्यस्यातिशय इति / अन्यस्य इति क्षोणीमण्डलस्य / दीपकम् इति 10 नृपतयः / क्रौर्य- इति क्रौर्यक्रिययाऽलक्रियाम् / सद् इति शोभनम् / यदि इति / यदि तद्दीपितं कर्तृभूतं, स इति अन्यत् कर्मभूतम् / अनङ्गम् इति / तदपि कर्तृभूतं स इति अन्यत् कर्मभूतम् प्रियासङ्गमोत्कण्ठामित्येवं दीपयति तदायं तृतीयः प्रकारो भवतीत्यर्थः / भावलक्षण इति / " यस्य च भावेन भावलक्षणम्" / सप्तमीति वर्त्तते / यस्य च भावेन क्रियया क्रियान्तरं लक्ष्यते ततो भावतः सप्तमी विभक्तिर्भवति / प्रसिद्धा च 15 क्रिया क्रियान्तरं लक्षयति / सा च प्रयुज्यमाना वा भवतु गम्यमाना वा / गोषु दुह्यमानासु गतः / दुग्धास्वागतः / अत्र प्रयुज्यमानया दोहनक्रियया गमनागमने लक्ष्येते / कैलायमानेष्वानेषु गतः / अत्र सत्स्विति गम्यमानया क्रियया गमनं लक्ष्यते / ततश्च भावलक्षणा चापसम्बन्धिनी या समारोपक्रिया प्रयुक्ता तया लक्षितस्य समासादनलक्षणस्य भावविशेषस्य संक्षेपेग तन्त्रेणाभिधानमिति / मालादीपकेन इति कोदण्डेनेत्यादिना / 20 अपिशब्दात् समस्य चेति न्यूनस्य विशिष्टेन समस्य च समेनेत्यर्थः / न्यायः इति / श्लिष्टानुप्रवेशेष्टिरन्यमते तु क्वचित्तदभ्युपगमः कचित्तदनभ्युपगमश्च / पुनरर्थतत्त्वपर्यालोचनायां यदि सम्भवति ततो विविक्त एव विषयो निदर्शयितुं युक्त इत्येवंलक्षणः / अलङ्कारान्तरम् इति तुल्ययोगितालक्षणम् / ___समासोक्त्या इति / यत्रोपमानादेवैतदुपमेयं प्रतीयते इति लक्षितया / केनचिद् 25 इति रुद्रटेन / विवक्षितम् इति तेनोपमानादुपमेयस्य यदाधिक्यं स एव व्यतिरेक इत्यर्थः / एकतरस्य इति / उपमेयगतोत्कर्षनिमित्तस्य वा उपमानगतापकर्षकारणस्य वा / शब्देन इति इव वा यथेतिरूपेण / इवार्थविहितवतिरूपेण च / अर्थेन इति / तुल्यादिना 1. कर्तृ-ग. 2 // 2. धान्यमेद //