SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 266 कल्पलताविवेके दीपकम् इति क्रियापदोपनिबन्धरूपम् / तद्विरोधाद् इति / तद्विरोधस्तस्य होत्यादिना प्रकटयिष्यते / पूर्वोक्तम् इति / गतोऽस्तम् इत्यादि / कैश्चिद् इति / रुद्रटप्रभृतिभिः / तैर्हि वास्तवप्रभेदतया दीपकस्य प्ररूपणं कृतं, कारणमालादिभिश्चालङ्कारविशेषः' प्रायशः समावेश इष्टो न त्वौपम्येन / उत्तरोत्तरजन्यत्वेऽपि इति / कारणमाला5. सद्भावेऽपीत्यर्थः / गोखानुविद्धन इति / अस्य व्याख्या तन्मयतापनेन इति / न च तासाम् इति / यथा दीपकमादिमध्योऽन्तो वेति सामानाधिकरण्यानुपलम्भादादिप्रभृतिविषयाणां दीपकमयतया न स्थितिस्तथा दीपकमाद्यवस्थामध्यावस्थाऽन्तावस्थेत्यवस्थानामपि न तथा स्थितिरपि तु दीपकस्याद्यवस्थेत्यादिरेवोपलभ्यत इत्यर्थः / यदाहुः इति / अप्रसिद्धस्य सम्बन्धपरस्य वाक्यस्य प्रसाधनाय वृद्धवादोपक्षेपः / नाफलिता द्रमाः 10 इति / अत्र फलितद्रुमैरष्टविष्टिदायिनी नाम यत्नोपदेयदा यि नी भोगादिकराणां धनकणसमृ द्धानां कृषीवलादिप्रजानामध्यवसानम् / वच इति वाक्यम् / सम्बन्धपरे ऽपि इति / राज्ञः पुरुषो हरिः करी इत्यादौ स्वस्वामिसम्बन्धेन कार्यभूतेन राजा पुरुषादिकं बिभ त्यनुमीयमानस्य विशेषगविशेष्यभावात्मकस्य क्रियाकारकसम्बन्धस्य कारणभूतस्योन्नीयमानभरणक्रियापेक्षया क्रियापदेनैव दीपकत्वमित्यर्थः / 15 चकम्मति इति / अत्र कवयः प्राकरणिकाः स्फुटमेव प्रतीयन्ते / कइकेसरी इति अत्रापि कविकेसरी प्राकरणिकः / सामर्थ्याद् इति / प्राकरणिकाप्राकरणिका अर्था अन्यपदार्थीभूताः / अत्र तादृशाः इति अन्तर्गतोपमा इत्यर्थः / रेहइ इति / अत्र त्वया भुवनमिदम् इति प्राकरणिकम् / अतिदेशार्थः इति तद्वदित्यतिदेशस्यार्थः / पदग्रहणम् इति / एकवचनान्तं क्रियापदमित्यत्र कारकपदमित्यत्र च। अत्र हि इति / प्रथमे हि 20 जयतिलक्षणा एका क्रिया / अपरत्र हि एकलक्षणमेकं कारकम् / तद् इति / क्रियापदं कारकपदं च / औपम्यसमुच्चयोऽपि इति / अयं हि समुच्चयाधिकार एव दर्शयिष्यते / गुणादि इति / कारकं हि गुण जातिद्रव्यरूपमेव भवतीति कारकदीपकमेवैवमुक्तम् / संयोगोऽत्र इति / तस्माद्विरुद्धार्थदीपकम् इति व्यपदेशान्तरं लभते / हरत्याभोगम इति / एतदन्तदीपकमप्येकार्थदीपकम् / हृद्य- इति मध्यदीपकमप्येतत् श्लिष्टार्थदीपकम् / 25 भ्रमणेनैव इति / भ्रमन्तीत्यनेकै नै कस्य धर्मैः साधारणस्य जीमूतमतङ्गजलक्षणस्यार्थद्वयस्य उपकार इत्यर्थः / आश्रये इति / क्रियादौ प्राकरणिकार्थे च / साकाङ्क्षाणाम् इति। आकाङ्क्षा अन्विताऽभिधानाद्यर्थं प्रतियोगिक्रियादिजिज्ञासालक्षणा / उपमानभावाय प्राकरणिकार्थ 1. सह / ख. // 2. -याप- ग. 2. // 3. न च तासामिति...इत्यर्थः अयं पाठः ग. 2. पुस्तके नास्ति // 4. -देरुक्तार्थघटनम् //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy