________________ अर्थालङ्कारनिर्णयः * 265 वाक्यव्यापकतया उपवर्णितः / मेदच्छेद- इति / अत्र मृगया न व्यसनं किन्तु गुणकारी विनोद इत्यस्तोतव्यायाः मृगयायाः स्तुतिरुच्यमाना प्राणिनो न हिंसितव्या इति धर्ममेव बाधते / लक्ष्यते इति लक्षणया प्रतिपाद्यते / स्वाभिप्राय- इति / सुरतसुखानुभवरूपस्य स्वाभिसन्धेः साधनायेत्यर्थः / अचेतसः प्रभोः इति / शाब्द्या वृत्त्या उपमानभावमापनस्य / वस्तुवृत्त्या तूपमेयभूतस्य / अप्रस्तुत- इति / वस्तुवृत्या हि सामान्यमुप- 5 मानमेवेत्यर्थः / ते इति / ध्यानापेक्षया विषयिविषयभावात्मनि सम्बन्धे षष्ठी। असम्भाव्यः इति लोकातिक्रान्तगोचरः / एतद इति / 'निमित्ततो यत्तु वच' इत्यतिशयोक्तिलक्षणम् / सैषा इति सेत्यनुवादकम् / एषा इति च विधायकम् / सा वक्रोक्तिरेव अतिशयोक्तिरेव नान्येत्यर्थः / ततश्च यः पर्यवसितोऽर्थस्तमुपदर्शयितुमाह- परोक्ष- इति / ___ लोक- इति / तच्छब्देन लोकप्रसिद्धिः परामृश्यते / एतच्छन्देन च लक्षणलक्ष्य- 10 मागत्वम् / पूर्ववद् इति अतिशयोक्तिरित्यर्थः / स्व वा] रत्न इति / स्व[वा रत्नं सूर्यकान्तश्चन्द्रकान्तश्च / तं दइया इति। तदयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण नाढौकितं सीतापरामृष्टेनेव व्यूढस्तेनापि न केवलं यत्र दौकितं तेनैव निरन्तरो रोमाञ्चः / माहात्म्य इति महत्वकृतस्य माहात्म्यस्येत्यर्थः / अतिशयस्यैव इति / गुणातिशयस्यैव उपमानत्वाद् इति / प्रतिबिम्बत्वात् प्रतिरूपत्वादित्यर्थः / 15 - शब्दप्रवृत्ति-इति / शब्दप्रवृत्तिनिमित्तम् , एकत्र गुणित्वम् अपरत्र शाखित्वम् / शब्दसंस्कार- इति / इवादिशब्दकपद्यादिसंस्कारयोः / उपमायाः इति उपमास्वरूपादित्यर्थः / निकटः इति / उपमाने उपनिबद्ध उपमेयस्याप्युपमेये चोपमानस्याऽपि समीपवर्ती भवति एकत्वादित्यर्थः / साधारणधर्मस्य इति / प्राप्तिलक्षणस्य / उपरि घनम् इति / अत्रोपरिभावशिरआधारत्वयोर्घनत्वक्रोधाविष्टत्वयोरेत्वहिमवदाधारत्वयोर्बिम्बप्रति- 20 बिम्बभावेनावस्थानम् / वस्तुसाम्यम् इति / अत्र च वक्ष्यमाणोक्तप्रस्तुतार्थविषयत्वं यदक्तव्यशेषं तत्साधारणोक्तिप्रक्रमायातमाक्षेप एव सूत्रकृत् प्रतिपादयिष्यत इत्यत्राप्यनुसन्धेयम् / ततश्च निदर्शयिष्यमाणे सरसिजमित्यत्र वक्ष्यमाणविषयता। तदरुचावन्यस्मिन्नुदाहरिष्यमाणे त्वयि दृष्ट इत्यत्रोक्तविषयता व्याख्येया। अस्यैव चार्थस्य प्रदर्शनार्थ सुलभेऽपि निर्विवादवक्ष्यमाणविषयोदाहरणे ऐतदुदाहरिष्यते इति / शास्त्रारम्भवैयर्थ्याञ्च 25 इति / चकारेण क्रियापदस्य वाच्यपरिसमाप्तिमात्रप्रत्यायकत्वादिति हेतुः समुच्चितः / शास्त्रारम्भवैयर्थ्यमेव भावयति अलङ्कार- इत्यादिना / 1. -र्दूरत्वहिमवदाधारत्वयो- नास्ति ग. 2 पुस्तके // 2. -सम्बन्धेयम् / ग. 2 // 3. सरसिजमित्यादि //