SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 264 कल्पलताविवेके चेति / अत्र टङ्कारो मुख्यया वृत्त्याऽव्यक्तं शब्दं प्रतिपादयति / शब्दश्च ध्वनियशोलक्षणार्थद्वयवाची। ततश्च टङ्कारशब्दः शब्दशब्दं लक्षयन् यशोलाकोऽपि भवतीति गौण्यावृत्त्या प्रयुक्तः / अभिधानाद् इति / प्रत्यायनात् / गुणवत्येव इति / व्यतिरेकमुखेनाऽभिहितम् / 5 शब्दः इति ध्वनिर्यशश्च / गुणवृत्त्येत्यर्थः / किमिति इति / प्रस्थाननिवृत्तिलक्षणस्य कार्यस्य प्रश्नमात्रे / येन इति / क्षीगविभवः कश्चिदपकारिणम युपजीवनार्थमनुसरन् केनचिदिहोपालभ्यते / इयं च इति / तुल्ये प्रस्तुते तुल्यान्तरस्य यत्र प्रशंसेत्यर्थः / अब्धेरणः स्थगित इति / अत्रोपात्ता धर्माः समुद्रे सम्भवन्तो नैकान्तेन प्रतीयमानमर्थमाक्षिपन्तीति तदनध्यारोपः / एतदृष्ट्या च पुंस्त्वादित्यत्र आदायचारीत्यत्र च प्रतीयमानस्यार्थस्या10 नध्यारोपः / येनास्यभ्युदितेनेत्यत्र च चन्द्रे सम्बोधनोपालम्भादेरसम्भवादध्यारोपोऽवसेयः / व्यङ्ग्यस्यापि इति / अपिशब्देन वाच्यस्याऽपि / भावाद इति सम्भवात् / एवंभूतापि इति अकुलजाऽपि लावण्यरहिताऽपि च / भ्रात्रादि इति यदि भवतीति शेषः / वाक्यैक- इति वाक्याभ्यामेकवाक्यतेत्यर्थः / कालमात्र इति / वियोगकाले इति हि कालमात्रम् / / प्रस्तुतानुसारेण इति / अभिधीयमानप्रस्तुतनायिकानुसारेणेत्यर्थः / 15 उपपद्यते इति / तेनासम्भवी अयमर्थ इति नेह व्याजस्तुतिः, किन्त्वप्रस्तुतप्रशंसैवेति / यो विकल्पः स न युज्यत इत्येतदेवाह- अप्रस्तुत- इति / इति इति नायिकामात्रवर्णनपरतयेत्यर्थः / तदलब्धसदृश -इति / न लब्धाः सदृशा अनुरूपा योग्याः श्रोतारो यत्रेति प्रसिद्ध एवार्थः / उपमा अलङ्कारः इति / भामहादीनां तु मते श्लेषालङ्कारः। उत्साह जनन- इति, कुशलकारिताप्रदर्शनया इति च धर्मवीरस्पर्शने इमौ हेतू / प्राधान्येन 20 इति / प्रस्तुततयेत्यर्थः / अन्यपरत्वे इति / प्रस्तुतप्रौढाश्रयत्वे इत्यर्थः / कुतो दोषाभावः __इति प्रस्तुतपाटलोपवर्णनेन वस्तुपरिपोषो, न च श्लोकः परोपदेशाय कल्पत इति दोषसद्भावात् / इयमेव च इति / अप्रस्तुतप्रशंसैव च / अस्मिन् इति / अपहतिं विशेषोक्तिं विरोधं तुल्ययोगिताम् / अप्रस्तुतप्रशंसां च व्याजस्तुतिविदर्शने // 25 इत्युत्तरक्रियापेक्षया कर्मभावेनोक्ते अलङ्कारवर्गे / यान्ति स्वदेहेषु इति / अत्र गौरीचेष्टितं प्रस्तुतमाक्षिप्यते / सापि इति / न केवलमसाधारणानि विशेषणानि यत्र साऽन्योक्तिः / मुक्त्वा इति / अत्र सर्वाण्यसाधारणानि विशेषणानि / अपरसेविनः इति / नै परं सेवन्ते इत्येवंशीलाः / लावण्य- इति / अत्र लावण्यसिन्धूत्पलशशिप्रभृतयः पदार्थाः पदमात्राभिवेया अप्रस्तुना उपवर्णिताः / छाया इति / अत्र तालेनेति पदार्थः सकल 1. -पोटा -क. ग. 2. // २.अ-ग. 2. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy