________________ कल्पलताविवेके तात्पर्यम् / अन्यत्वम् इति अन्यालङ्कारत्वम् / उत्प्रेक्षालक्षणवद् इति / यथा तत्र वाच्ये / वादिभिरुच्यते इति / या वाच्या सा इवादिभिरुच्यते, गम्यमानान्वर्थसामर्थ्यात् प्रतिपद्यत इति विशेष उक्तस्तथाऽत्रापीत्थं गम्यमान आक्षेपो भवतीति विशेषो वक्तव्यः / स च नोक्त इत्यनुदाहरगत्वमिति / चिन्तयत इत्यस्य इति / अन्यत्राऽपि इति / यथा5 प्रस्तुतप्रशंसायां प्रस्तुतपरत्वेऽलङ्कारत्वं, तथेहापि चेत्तर्हि आक्षिप्यमागस्याप्रस्तुतस्य प्रस्तुतपरत्वेऽप्याक्षेपो भवतीति प्रकारान्तरं वक्तव्यमेवेत्यर्थः / एते तूदाहरणे इति / पूर्वेऽनुदाहरणे इत्यर्थः / वोलेसु इति / गच्छविशेषः इति अप्रस्तुतप्रशंसायाः / एवं गतेऽपि इति यात्रानुबन्धिनि विघ्नजाते इत्यर्थः / खद भ्यासे इति त्वदभ्यणे / तस्यैव इति प्रेम्गः / तदनुमतम् इति प्रेमानुमतम् / तत्परा10 धीना इति प्रेमपराधीना / उद्रिक्त-इति / अत्यधिकप्रेम्गा निर्गतमर्याद आत्मा यस्यास्तया / दीपिकासु इति पुष्करिणीषु / विशीर्णम् इति गलितपलाशम् / जीर्णम् इति कालान्तरपरिवास जरठम् / अनुक्रोश-इति / आघ्रागादेरुत्पलोचितव्यापारस्य निषेधोऽत्र शोच्यदशानिबन्धपर्यवसायितया अनुक्रोशे फलित इति तथा व्यपदेशः / न पुरसंवादि इति / नू पुरध्वन्यनुकारि। संशय-इति / संशयनिवृत्तिमुखेन निबन्धात् / संशयाक्षेपः येन इति / 15 हेतुपदम् अर्थान्तरोपन्यासेनाक्षेपात्तव्यपदेशः / अनुसन्धेयम् इति / तदत्र वालय नाह मित्युक्तविषय आक्षेप उदाहार्यः / वक्ष्यमागविषयस्तूदाहृत एव / विध्याक्षेपः इति / विधौ पर्यवसायित्वमिति मिश्रस्यापि तेव्यपदेशः / ताभ्याम् इति विधिनिषेधाभ्याम् / निषेधाक्षेपः इति निषेधस्यैव प्राधान्यात्तव्यपदेशः / निषेधेऽपि इति / निषेधेऽपि रोधोऽभिधीयत इत्यर्थः / तेन विधिरोधो निषेधरोधश्चेति सामान्येन द्विप्रकारः स रोधः 20 कथ्यते इति सम्बन्धः / उक्तियुक्तिभ्यामिति तु विधौ निषेधे च प्रतिकूलानुकूलयो रोधयोरभिसम्बध्यते / ततश्च विशेषापेक्षयाऽष्टप्रकारोऽयं रोध इत्यर्थः / पत्तिय इति / प्रतीहि / हन्तुम् इति। हे प्लवगपते, रघुपतेः किमिति प्रियमिति बुद्ध्या विप्रियं कर्तुमिच्छसि / किंकुर्वाणो दशवदनं हन्तुं विशेषेण मृगयमाणः / कीदृशस्य रघुपतेः आत्मना दशवदनं हन्तुं त्वरितस्य कृतप्रतिज्ञस्य / जे इति पादपूरणे निपातः / आनुकूल्ये25 नैव इति। मा गा इत्यस्य स्वभावत एव निर्गतत्वात् / वैयात्योक्तिपक्षे तु बुद्धिपूर्वकमुपेत्यैव मा गा इत्यस्योक्तत्वात् किं करोमीति प्रातिकूल्येनैवाह-निषेधाक्षेपरूपः इति / अकुपितस्य निषिद्धकोपस्य कुपितीकरणलक्षण आक्षेपो निषेधाक्षेपस्तत्स्वभावः / उपालम्भः इति इयमतिप्रभुतेत्युक्त्येत्यर्थः / अस्य चोपालम्भस्य स्वरूपमभिधातुमाह- तत्र इति / 1. विनष्टे // 2. विधि ख. पुस्तके एव //