________________ अर्थालङ्कारनिर्णयः 261 वर्णनं क्रियते / यया मुखेनाखण्डः शशी जितस्तया हस्तशोभया पद्ममपि नूनं जीयत इत्यर्थः / परोऽर्थः गणिकावर्णनं नाम / विदग्धसहेलानां यया सर्वस्वं जग्धं तस्या आर्ज. वधनं हस्तस्थमेवेत्यर्थः / अस्मिंश्चार्थे सुप्रापमिति विवक्षिते हस्तगमिति लौकिकी उक्तिः कृता / एतदेवाह-अत्र सुप्रापेति / कलत्रं नितम्बः सहचरी च / एकमद्वितीयमेकत्वसङ्ख्यावञ्च / द्वयोः इति / ऊरुविशेषगमर्थात् पुरुषविशेषणं च / सङ्घर्षः सघृष्टिः परस्परं 5 कलहश्च / अत्र स्पर्द्धतिविवक्षितादन्या सङ्घर्ष इत्युक्तिः प्रकृतमर्थं पुष्णाति / उपास्येति / वैबुधं विद्वज्जनसम्बन्धि देवकीयं च / सरस्वतीं वाणी नदीविशेषं च / जलं जाड्यं वारि च / पारमन्तः परतटं च / निम्ना अधमपुरुषा नीचप्रदेशाश्च / प्रतिमा प्रतिबिम्बमद्वितीयेति यावत् मूर्तिश्च / अवयवमुख- इति अवयवद्वारेण कृतानि समुदायस्य विशेषणानि यत्र स तथोक्तः / यत्र वाक्यम् इति / यत्र वाक्यं कर्तृप्रस्तुतवाक्यार्थाभिधायि कर्तृप्रस्तुतं प्रस्तु- 10 तवाक्यार्थानुगतमविरुद्धं च सत्पदार्थद्रय पदार्थद्वय]मन्यदिवाऽप्रस्तुतमिव पृथग्भूतमिव प्रस्तुतवाक्यार्थाननुयायीव विरुद्धमिव चाभासमानं गमयेदित्यर्थः / / प्राग् इति विरोधश्लेषे / गुणक्रिया इति / गुणरूपाणां क्रियारूपाणां शब्दरूपाणां च / शब्दाश्च समानप्रयत्नोच्चार्यच्छायाधारिणोऽत्र विवक्षिताः / अर्थभेदेन शब्दभेदस्य स्वकण्ठेनानुक्तेरुदाहरणाप्रदर्शनेन चानभ्युपगमात् / योऽयम इति / यदिदं 15 मुखं, एषोऽयं चन्द्र इत्यर्थः / यच्छन्दनिर्दिष्टो ह्यर्थः प्रत्यक्षनिर्दिश्यमानत्वनिमित्तमेतच्छब्देन परामृष्टः / श्लेषप्रकाराणाम् इति / दत्तानन्दा इत्यत्रार्थश्लेषोऽभङ्गशब्दश्लेषो वा / येन ध्वस्तेत्यत्र सभङ्गशब्दश्लेषः / का गतिः इति / एतल्लक्षणेनाव्याप्तेरिति भावः / एकरूपता इति / समानप्रयत्नोच्चार्यच्छायाधारितायाः / अलङ्कारान्तररूपसाङ्कर्ये तु इति / अयमभिप्रायः / सर्व एव विषयोऽलङ्कारान्तरैराक्रान्त इति निरवकाशतया तान्य- 20 पवदतीति श्लेष एव तेषामनुग्राह्य इति यदन्यैः प्रतिपादितं तन्न समीचीनम् / असावुदयमित्यादिरलङ्कारान्तरविविक्तोऽपि हि विषयः श्लेषस्य सम्भवतीति तत्सा.ये तान्येव तस्यानुग्राह्याणीति / प्रागेवोदाहृताः इति / आक्षेपादीनामत्र ग्रन्थे प्रागुक्तत्वात् / तुल्ययोगिता ह्यलङ्कारान्तराणामिति। प्रथमतृतीयषष्ठसप्तमेषूदाहरणेषु तुल्ययोगिताविरोधरूपकविरोधानां, 25 द्वितीयचतुर्थयोस्तुल्ययोगिताऽतिशयोक्त्योः समुच्चयपरिसङ्ख्ययोर्वा, पञ्चमे चौतिशयो 1 अपरोऽर्थः ग. 2. // 2. कलत्रमिति कलत्रं ग. 2. // 3. - मनर्थ ग. 2. // 4. बिम्ब द्वि- ग. 2 // 5 यत्र वाक्यमिति इत्यारभ्य गमयेदित्यर्थः इत्यवधिकः पाठः नास्ति ग. 2. पुस्तके // 6. हि ग. 2. // 7. मतान्तरेण // 8. -गमाद् वा ग. 2 // 9. का मतेन // 10 अन्यालङ्कारमतेनानैकत्वयोरभणनात् / ख. पुस्तके एव // 11 वा- ग. 2. //