________________ 260 कल्पलताविवेके श्लेषाभासो हि स इति / सामान्यशब्दवाच्यत्वेऽप्येकदेशविवर्तिरूपकव्यपदेशः समुचित इत्यर्थः / अस्य इति / प्रसाध्यते स्मेत्यादेरेकदेशविवर्तिरूपकोदाहरणस्य / श्लिष्टवाच्यत्वम् इति / श्लिष्टव्यपदेश्यत्वमिति यावत् / अर्थः इति / शब्दो वार्थो वा / भानुदीप्यमान- इति भास्वच्छब्दस्य स्थाने इत्यर्थः / अस्य इति श्लिष्टस्य / युक्तम् इति / तस्मा5 च्छब्दस्यैवायमलङ्कार इत्यर्थः / अनेकाक्षेपः इति / सर्वं वाक्यं सावधारगमिति न्यायात् प्रतियोगिन्यामनेकप्रयत्नोच्चार्यतायां सम्भवन्त्यामेव एकप्रयत्नोच्चार्यत्वमुपपद्यते / अनेकप्रयत्नोच्चार्यतासम्भवश्च शब्दानेकत्व एव सङ्गच्छत इति शब्दानामनेकत्वाक्षेपः / एवं च इति / यथा पल्लवेत्यादावुपमा, आसारधारेत्यादौ रूपकविशेषो, भास्वत्करविराजिनीत्यत्र च शब्दालङ्कारत्वं तथैवेत्यर्थः / एवमन्येऽपि इति / छायावन्तो गतव्याला इत्यादौ तुल्य10 योगिताप्रभृतयः शब्दालङ्कारा ज्ञेयाः। नै नु] तुल्ययोगिताद्यलङ्कारान्तरप्रतिभाहेतवोऽर्थश्लेषाः शब्दश्लेषाश्च / तत्रापि हि आसारधारेत्यादौ गड्डरिकाप्रवाहेणाऽपि रूपकविशेषो व्यतिरेकविशेवश्चति यद् व्यपदिष्टं सा प्रयत्नमन्तरेणाऽप्यस्मत्समीहितस्य सिद्धिः समुपजातेति तत्र यत् साध्यं तदेव साधयितुमाह- तथाहि इति / यद्वैचित्र्यम् इति / यस्य वैचित्र्यम् / चिन्त्यम् इति / विरोधव्याजाऽसम्भवा15 वयवतत्त्वविरोधाभासश्लेषेषु विरोधव्याजस्तुतिव्यतिरेकरूपकरूपकविरोधालङ्कारसंस्पर्शः स्फुटमेव हि प्रतीयते / कान्ताम् इति अङ्गनां कमनीयां च / शब्दार्थयोः इति / शरदिन्दुप्रभृतीनि विशेषगानि समानार्थानीति- शब्दसाम्यम् / द्वावप्यर्थो विशेषरूपावित्यर्थसाम्यम् / आशा आस्था दिशश्च / फलानि कार्यसिद्धयः प्रसिद्धानि च / रजः कल्मषं रेणुश्च। यद्वा इति / अरिवक्षस्थलानां, वारिपूरेण स्थलानां च / अत्र शब्दश्लेषोऽपि / वाहिन्यः 20 सेना नद्यश्च / राजहंसाः प्रकृष्टा राजानः पक्षिविशेषाश्च / देवो राजा जीमूतश्च / निस्त्रिंश इति खड्गधारा अप्रतनुत्ववेगवत्वानवच्छिन्नत्वैर्नृशंसाश्च वारिधाराः / भूभृतो राजानः पर्वताश्च / प्रतापः पौष तेजः प्रकृष्टश्च तापः / त्वया मदर्थ इति अत्र स्तुतितो निन्दा / नो भीतम् इति / अत्र निन्दायाः स्तुतिः / अज्विधौ इति / अग्विधौ भयादीनामुपसङ्ख्यानं नपुंसके क्तादिनिवृत्त्यर्थम् / यथा भयं वर्षम् / कुगभावाद् इति / “कुग्जनस्य 25 परस्य च" इत्यादिना जनप्रभृतीनां कियतामेव शब्दानाङ्कुको विधानं न स्वशब्दस्य / सत्यपि इति अभ्युपगममात्रमिदम् / कलावतः इति / कस्याश्चित् कुलस्त्रियो रूप 1. तथेत्यर्थः ग 2. // 2. न तु ग. 2. // 3. आशा इति ग 2. / आशा आस्था // 4. पुरुषसत्कम् //