________________ 262 कल्पलताविवेके क्त्याक्षेपयोः परिसङ्ख्याक्षेपेयोर्वेति / समान- इति समानप्रयत्नोच्चार्यशब्दकर्तृकं वाच्यत्वमर्थयोरिति संबन्धः / पदान्तरम् इति / यत्र विशेषणानि श्लिष्टानि विशेष्याभिधायिनी च पदे अश्लिष्टे तत्र समासोपमायां रूपकससन्देहादौ अप्रकृतार्थाभिधायि यत्पदान्तरं तदेतस्य श्लिष्टस्य प्रतिपादकमित्यर्थः / इवादिर्वा इति / इव वा चकारप्रभृतिर्वा वाचक5 विशेषः / वाक्यसामर्थ्यमेव वा इति / यत्र विशेष्यमपि श्लिष्टं येन ध्वस्तमनोभवे[ने]त्यादौ, यत्र चाश्लिष्टं विशेष्यं समासोक्त्यादौ तत्र वाक्यसामर्थ्यमेव केवलमेतस्य श्लेषस्य प्रतिपादकमित्यर्थः / ___ अत्र च इति / एतेषु त्रिष्वपि प्रकारेषु / अर्थयोः इति / अर्थश्लेषे द्वयोरर्थयोउल्लेखे एकं तन्त्रम् / शब्दश्लेषे शब्दयोरर्थयोश्चोल्लेखेऽपरं तन्त्रम् / उभयश्लेषे तदेवोक्तं 10 तन्त्रद्वयमित्यर्थः / तुल्यशब्दस्मृतेः इति / यदि च तन्त्रं नाश्रीयते तदैकार्थस्य शब्दस्य स्मृत्या तुल्याउनेकार्थस्य शब्दस्य या स्मृतिस्तस्याः कुतोऽर्थान्तरं प्रतीयते / स्मृतिरेव ह्यर्थस्य प्रतिपादिकेत्याह-शब्दस्येत्यादि / श्लेषः इति / यत्रैकेन पदेनानेकार्थकथनं स श्लेषः कथ्यत इति सम्बन्धः / भिन्नपद इति / समानप्रयत्नोच्चार्यच्छायाधारिशब्दोप निबद्धः / को विशेषः इति / प्रथमयोर्हि अभिन्नक्रियत्वमस्ति / अस्य चाभिन्नभिन्न15 पदत्वे अपि विवक्षिते इति भावः / अयं च इति / अयं स्वभावमधुरेत्यादिरभिन्नक्रियः / हस्तिना इति हस्तिगत्येत्यर्थः / कृष्णा इति / श्यामा शुभ्रा आरक्ता च / कर्णः श्रोत्रम् / अयमविरु द्रोऽर्थः / असिमात्र- इति / पृष्ठेनेत्यत्र हि स्वयमेव व्याख्यास्यमानमलङ्कारान्तरसङ्करं शङ्कित्वा विविक्तमेवैतदर्शितवान् / अत्रापि इति / न केवलमुपोढरागेणेत्यादौ श्लेषो न समासोक्तिः / अगृह्यमाण20 -इति / न हि कश्चिद्विशेषो ज्ञायते यद्बलेन श्लेष एव वा एकदेशविवर्तिरूपकमेव वा बाधितुं शक्यते / पयोदोपक्रमस्य वाक्यार्थस्य इति नियूढस्येत्यर्थः / ये साधारणा धर्मा इति श्लेषैकदेशविवर्तिरूपकवैचित्र्यकलङ्कविकला इत्यर्थः / दन्तममा इति / अत्र हि प्रदर्शयिष्यमाणे युक्ततख्याख्याने दन्तप्रभेत्यादिषु यद्यपि न रूपकत्वप्रसक्तिस्तथाऽपि श्लेषो दुर्निवार इति तान्युपेक्ष्य तन्वीमित्येकमेव दिङ्मात्रप्रदर्शनार्थमुपदर्शितम् / तद्भावम् 25 इति / तच्छब्देन सुमनःप्रभृतयो गृह्यन्ते / रूप्यते इति / वनमेव वनमिति कृत्वा / मनोरथशतैः इति / अत्र कानिचिद्विशेषगानि प्रकृतसत्पुरुषेण तुल्यानि कानिचिन्न तथेति मिश्रविशेषगत्वेऽन्योक्तिरेव / उपमेयस्य इति / विशेष्यरूपस्य विशेषणरूपतया त्वस्योक्तिरेव / अन्यथा समानवस्तुन्यासता कथम् / एतदेवाह-समानवस्तुन्यासता इति / 1. संस्पर्शः / अलंकाराऽभिप्रायेण / ख. पुस्तके एव // 2. विशेषणानि ख. //