SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 250 कल्पलताविवेके तच्छब्दस्तेन वडवाग्निसदृशत्वमित्यर्थः / स्रोतःपतेः एव इति / ननु चक्रवद्विशेष्यरूपम् / तत् कथमावर्तेन सम्बन्धमननुभवत्सवाडवाग्नित्वं चक्रविशेषणप्रतिबिम्बीभवति / तेन धर्माधिकत्वमित्यर्थः / चक्रस्येतिप्रसङ्गात् प्रतिपादितमिदम् / शब्दस्यैव इति / वाक्यस्यैवेमौ न्यूनाधिकत्वलक्षणो दोषौ नोपमायाः धर्मन्यूनाधिकत्वे चेति दोषस्वरूपकथनमिदम् / / 5 विशेषः इति स्तुतिविपर्ययरूपः / ऎवं निदर्शितेनान्वयेन निदर्शयिष्यमाणे च चन्द्रमुखं मनोज्ञमिति व्यतिरेकेण परमार्थतः सामान्यशब्दभेदे एव लिङ्गभेदः पर्यवसितः / ततश्च इति / प्रायेण इति कचिन्नेष्ट इत्यर्थः / तत्रापि तेषां तैरस्ति कान्तिर्वात्युग्रताऽपि वेति भामहेन परिहृतत्वादसादृश्यदोषस्य तन्मतनिराकरणाभिप्रायेण यथोपपत्तिः तस्य स्वरूपं 10 निरूपयितुमाह- अप्रतीत इत्यादि / गुणैरिति कान्त्युग्रतालक्षणैश्चित्तावर्जकत्वादिलक्षणैश्च। प्रत्यायने इति शब्दोपादानेन / येन इति / धर्मद्वारको धर्मिणोरुपमानोपमेयभावो भवतीत्यर्थः / सा हि इति / सूत्रोपात्तस्य हिशब्दस्य सम्बन्धोऽयमुपदर्शितः, उपमा ह्यलङ्कारेषु तन्निष्ठत्वात् कवीनां प्रधानम् / सिद्धवद इति / कर्पूरादिवत् सितं यश इत्येवंरूपतया न वक्तुमुपक्रमो युक्त इत्यर्थः / यतः कपूरेण मितम् इत्यस्माद्वाक्यात् सामान्येनैव तुल्यता 15 प्रतीयते इति साथ्यावस्थ एवादौ शुभ्रत्वसम्पत्ययः / तथारूपता इति / शुभ्रतायाः / नापुष्टार्थवाद इति / उपमानाधिक्यात्तदपोह इति यदुक्तं तन्नाऽपुष्टार्थत्वात् / एकस्मिन्नुपमाने प्रयुक्ते उपमानान्तरप्रयोगो न कञ्चिदर्थविशेष पुष्णाति / बलसिन्धुः इति / नात्र पौनरुक्त्यं बल: सिन्धुरिव वैपुल्याद्वलसिन्धुः, सिन्धुरिव क्षुभित इति क्षोभसारूप्यादित्यर्थभेदप्रतीतेः / अर्थपुष्टिस्तु नास्तीत्याह- अत्र बल इत्यादि / कथम् इति अत्राप्यपुष्टार्थमस्विति भावः / 20 अत्रापि इति / सिद्धान्तप्रदर्शनपरम् / चन्द्राभेद इति रूपकम् / अस्याभिप्रायः इति / वयं तु ब्रूमः-रूपकोपमयोरेकत्र समावेशे विरोधाद्यर्थत्वम्, अथ प्रसवशुद्धिमत्तरत्वधर्माभ्यामुभयत्रोपमा तदैकार्थत्वम्, उत राजा इन्दुरिवेत्यत्र सौम्याह्लादकत्वसद्वृत्तत्वानि प्रतीयन्ते। इन्दरिव प्रसूतः शुद्धिमत्तरश्चेत्यत्र तु प्रसवशुद्धिमत्तरत्वे अभिधीयते इति नैकार्थत्वं, तर्हि साहचर्यात् प्रसवादिना सौम्यादौ लब्धे तदर्थमिन्दुरिति द्वितीयमुपमानपदं यदुपात्तं तद 1. स्रोतःपतेरेवेति... ........दोषस्वरूपकथनमिदम् / नास्ति अयं पाठः ग. 1 पुस्तके / 2. इति विपर्ययरूपः ग. 1 // 3. एवं निदर्शितेनान्वयेन......नेष्टः इत्यर्थः / अयं पाठो ग. 1 पुस्तके नावलोक्यते // 4. -माणेन क. ग. 2. // 5. चन्द्र इव मुखं क. ग 2. // 6. यत्र चेति क. ग 2 // 7. तत्रापि तेषाम् इत्यस्य स्थाने तथापि इति पाठः ग. 1. पुस्तके // 8. गुणैरिति...प्रधानम् / इति पाठो मास्ति ग. 1 पुस्तके // 9. पुष्टार्थमस्त्विति भावः // 10. पूर्वापरव्याडनार्थत्वम् (?) / ख. पुस्तके एव / / 11. पुनरुक्तत्वम् ख. पुस्तके एव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy