SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 251 पुष्टार्थमेवेति / असिद्धे तु इति स्वरूपतो विशेषणतश्चेत्यर्थः / अनेन इति इवशब्देनोन्निद्रस्येवेत्यत्र योजितेन / निःसंशय इति / येनोपमायां दोषोऽसौ सङ्गच्छत इत्यर्थः / अर्थदोषः इति / वाक्यार्थदोषो व्यर्थाभिधानः / विचित्रस्येति उपमानात्मनः / यैः इति वामनवृत्तिकृद्भिः। इदमभ्यधायि इति / को नाम वह्निनौपम्यं कुर्वीत शशलक्ष्मण इत्यादि ब्रुवता भामहेनोत्थानोपहतत्वमतिशयविवक्षायां तु सति समुत्थाने निर्दोषत्वम- 5 मस्त्वित्युक्तस्य पूर्वपक्षस्य समाधानं पुनः पूर्वपक्षः समाधानं चाभिहितमित्यर्थः / न ते सम्यग इति / उक्तेनापोद्वारिक्येत्यादिना वक्ष्यमाणेन मलयजरसेन इत्यादिना नयेन वस्तुतः सर्वोऽपि किल विभाव्यतां गच्छतीत्यर्थः / अतिशयस्य इति / अविभाव्यतागमन- 10 लक्षणस्य / योगपद्येन इति / वक्ष्यमाणायामुपमेयोपमायां क्रमग्रहणाद्यौगपद्यमत्र लब्धम् / अप्रस्तुतप्रशंसा इति / यथाऽप्रस्तुतप्रशंसायामप्रस्तुतस्य वस्तुनोऽनन्वये चोपमानोपमेयभावस्य वाच्यस्याविवक्षा, तथाऽत्रापीत्यर्थः / प्रतीतिमात्र इति / मात्रग्रहणेन कार्येऽङ्गभावेनान्वितत्वं व्यवच्छिंद्यते, तेन इति / यत उपमानस्य साम्यस्य चोत्प्रेक्षायामविवक्षा / 15 मोहः इति / उपमानस्य तद्विशेषणस्य वाऽसतः परिकल्पनं भ्रान्त्यपरपर्यायस्य मोहस्य बीजम् / न हि ते काव्यतत्त्वविदः, कथमन्यथा काव्यपदानां स्ववाच्येषु कल्पनायोगमिच्छन्ति / वेदवद्धि यथाशब्दं तत्रार्थो न यथार्थशब्दः / कथं च यत्रोपमानोपमेयसाम्यप्रतीतिरस्ति तत्रोपमायामप्यतिशयस्येष्टत्वादसद्धर्माध्यवसानेनोपमामपि तूत्प्रेक्षां व्यपदिशन्तीति / तत्र इति / यत्र साललतेवेत्यादावुपमान एवेवशब्दश्रुतिस्तत्र निर्विवाद एवोत्प्रेक्षा 20 बुद्धिप्रतिषेधोपदेशः / यत्र तु स्थास्नुरिवेत्यादौ विशेषण एव तत्राप्युपमेयस्योपात्तस्य प्रतीयमानत्वादपहृत्यभावे उपमानरूपसम्भावनानुपपत्तेरधिकीभवदुपमानमुपमेयोपकारकत्वेनात्मनः प्रतिष्ठार्थमिव शब्दसम्बन्धमाकाङ्क्षतीति नेवशब्दो यथावस्थित एव सम्बन्धमर्हतीत्युपमान एव स द्रष्टव्यः / ___ एवं च जाज्वल्यमाना इव इति, पुञ्जीभूतमिव इत्यादावपि नोत्प्रेक्षायां 25 बुद्धिविधेया / न च सङ्करेऽपि तूपमायामेव इति / एवंविधेषु इति / अनेन कुमुददलदीधितीनामित्यादि स्वरूपतः कॅलितोदाहरणमपि लभ्यते / व्यापनादि इति / आदिग्रहणात् 1. -के - क. // 2. भावस्याविवक्षा ग. 2 // 3. वाक्यार्थे / कार्थेऽनङ्ग-ग. 2 // 4. व्यवच्छिद्यते उपमेयत्वमिति अनन्वयोकमेतदनुषक्तम् / ख. ग. 2. // 5. स्वभाव्येषु ग. 2. // 6. किमिति च // 7. कल्पितो-क. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy