________________ 249 अर्थालङ्कारनिर्णयः मित्युपदर्शितं तथापि मेधाव्युक्तं तावनिराकृतमित्येवमुक्तम् / तथाहि इति / यादग्धर्मयुक्तमुपमेयमुपनिबद्ध तादृग्धर्मयुक्तमेवोपमानं कर्त्तव्यमित्यत्र द्वितीयपक्षे हीनताधिक्ययोर्लिङ्गभेदे वचनभेदे च लक्ष्यविरोधलक्षणः परिहारो य उपदर्शितः स तुच्छरूपत्वादेव न समीचीन इति न प्रदर्शितः / विशेषणानि च इति / चः पुनरर्थे / ततो न पुनरिति सम्बन्धः / साभिप्रायैः / इति साधर्म्यवाचिभिर्न त्वेकतरस्वरूपमात्रपरैः / तदुक्त-इति / अतिशयोक्त्युक्तलक्षणेनैव / न शक्यम् इति / लोकेऽप्रसिद्धत्वात् / सोऽयम् इति / स इत्यनेन मेधाव्युक्तो लिङ्गवचोदोषः परामृश्यते / अयमित्यनेन स्वलक्षणलक्षितः सामान्यशब्दभेद एव / यो लिङ्गवचोभेदेन अन्यैर्द्विधा दोष उक्तः सोऽयमेक एव सामान्यशब्दभेद इत्यर्थः / यत्र इति काव्ये / उभयोः समानयोरिति वैषम्याद्विशेषख्यापनार्थमिदम् / विस्मये इति / चित्रमिदं 1 यत् प्रकटोऽपि दोषो महाकविभिरपि न परिहियत इत्यर्थः / विपरीतरते इति कल्पितोपमेयम् / मुक्ताफलेति तूत्पाद्योपमा / सुतनुरियम् इति / अत्रोपमेयपक्षे विमलेन धौततनुवाससा लक्षयितुं शक्यमूर्वोरेव मृणालमूलयोर्लालित्यं शोभा यस्याः / मित्रं प्रियसुहृत् / ने साहचर्याद् इति / न पिङ्गत्वसाहचर्यात् दीनता इति सूर्याशुसम्मीलित- 14 लोचनहेत्वतुकाया दीनताया इत्यर्थः / पदम् इति / भर्तृहीनेष्वित्येवंरूपम् / तेन सूर्यांशुसम्मीलितलोचनेष्विति दीनेष्विति च पदद्वयं न कर्त्तव्यमेवेत्यर्थः / तथा च इति / अव्युत्पत्तिप्रतिषेधे प्रकारान्तरोपदर्शनार्थमेतत् / ततश्च तेनैव प्रकारेण च धनागमेत्यभिधातुं युज्यत एवेति सम्बन्धः / व्याख्यातम् इति / जातिप्रमाणधर्माधिकतोपमानस्याधिकत्वमित्यर्थः / अलङ्कार-इति / अतिशायिनी तत्रोपमेत्यर्थः / तत्त्वम् इति / अर्थात्तच्छब्देनोप- 20 मेयधर्मः परामृश्यते / ततश्च तत्त्वमुपमेयधर्मत्वमित्यर्थः / यदि वा लक्षणया तत्सदृशवृत्तिरत्र 1. हीनताधिक्ययोद्वितीयपक्षे ग. 1 // 2. लक्ष्यविरोध-इति नास्ति ग. 2 पुस्तके // 3. विशेषणानि च इति...लोकेऽप्रसिद्धत्वात् / इति पाठः ग. 1. पुस्तके नास्ति // 4. विस्मये इति इत्यस्मात्प्राक् ग. 1. पुस्तके निर्दिष्टः पाठोऽधिको दृश्यते / यथा कालभेद इति / यत्र ह्यतीतनायकचरितमपनीयते तत्रावश्यं कालभेदेन भवितव्यमित्यर्थः // 5. न साहचर्याद इति... तोपमेत्यर्थः इति पाठस्य स्थाने ग. 1 पुस्तके अयं पाठः दृश्यते / पद्मानिलनिर्मदत्वेनैवेति / अयं भावः / शरत्कालाहितं निर्मदत्वं केकानां शिखिमुखेषु विनाशे हेतुत्वेन विवक्षितं, तच्च भर्तृहीनत्वेन समानमिति बिम्बप्रतिबिम्बतया तयोरुपादानं युक्तं; यदा च तयोरुपमानोपमेयभावः प्रतीतस्तदा निर्मदत्वस्य निमित्तं सूर्यांशुसंस्पर्शो निर्मदत्वकारणकं च दीनत्वं स्वातन्त्र्याभावान्न प्रतिवस्तुरूपं किञ्चिदात्मोपकाराय समीहेतामित्यर्थः / घनागमेति / अत्र हि दुःसहावलोकप्रतिबिम्बभावेन भर्तृभङ्ग उपनिबद्धः // 32