________________ 248 कल्पलताविवेके वचनबहुवचनभेदश्चैव प्रदर्शितः / प्राणा इव इति / लिङ्गभेदव्यतिरिक्तेऽपि विषये वचनभेदो दृश्यत इत्येतदर्थमेतदिति / उच्यते इति समाधीयते कैश्चिदित्यर्थः / हीनविपर्ययः इति उभयरूपोऽपि विपर्ययदोषः सव्यभिचारत्वात् न सम्यगित्यवाच्य एवेत्यर्थः / अत्र च इति दोषप्रकाशनार्थमिदम् / 5 प्रतिकृतिद्वारेण इति / किलोपमेयेऽर्थे नास्य शशिनो निर्देशो न्याय्यो मेघलक्षणो पमानसन्धित्वात् / अथ चैवमत्रोक्तं नै ह्ययं निर्दिष्ट उपमेयेऽर्थ इति सेयमुपमेयाधारा निर्दिशिक्रियाकर्मता शशिनाऽनुपद्यमाना स्वात्मसिद्ध्यर्थत्वेन प्रेतिकृति द्वारभूतामाक्षिपति / यथा काष्ठैः पचतीति विक्लित्तिसिद्धौ काष्ठानि ज्वालानुगमम् / सोऽयं स्वसिद्ध्यर्थत्वेनान्तिराक्षेप उपादानात्मा लक्षणाव्यापारोऽभिधीयते इत्यर्थः / यदा तु न ह्ययं निर्दिष्ट उपमेयेऽर्थ 10 इत्यत्रायं शब्दः शशिविषयतयाऽनुपपद्यमानसमन्वयत्वान्मुख्यार्थाभोगवैमुख्येऽभिधेयसादृश्यस्वाजन्येनार्थान्तरभूतायाऽसौ शशिप्रतिकृतिलजादिरूपा तत्परत्वेनात्मानमर्पयति तदा उपादानस्वभावलक्षणा विलक्षणव्यापारा शुद्धलक्षणाऽभिधीयते / यदा तूपादानात्मनि व्यापारे पूर्वोपदर्शितस्वरूपे शब्दानामुपात्तानामसम्पूर्णतया प्रमाणत्वं न निर्वहतीति प्रमा णत्वनिर्वाहायोपात्तेन वाक्यखण्डलकेन वाक्यखण्डलकान्तरमनुपात्तमप्याक्षिप्यते। एवं हि तस्य 15 प्रमाणतोपपद्यते। नान्यथा इति तदाऽनुनीयमानशब्दैकदेशविषयत्वाच्छ्रतार्थापत्तित्वमत्राभिधीयते / हीनतादयः इति / उपमानाधिकत्वस्यान्यथादोषत्वेन स्वयमभ्युपगतत्वान्मेधाव्युक्त एवेत्यर्थः / कटाक्षी इति / कटाक्षप्रक्षेपमात्रकरणमपि / न कृतम् इति / अपि तु कल्पप न्यायशब्दोपादानात् सादृश्यं प्रत्युतोक्तमित्यर्थः हीनाधिकत्वविशिष्टः इति / हीनविप र्ययोऽधिकविपर्ययश्चेत्यर्थः / तावन्मात्रेण इति / हीनत्वाधिकत्वमात्रेण न दोषोऽपि त्वप्रसिद्धि0 गर्भीकारेणेत्यर्थः / स्वरूपमात्रेति / मात्रशब्देन निन्दास्तुती व्यवछिन्ने / सरन इति / सरन्नप्रतिबिम्ब इत्यर्थः / तस्माद् इति / यतोहीनाधिकान्यप्युपमानान्युदाहृते विषये लोके प्रसिद्धान्येवेति न विपर्ययमात्रं दुष्टतायां प्रयोजकम् / अप्रसिद्धिरेव इति / न तु विपर्यय इत्यर्थः / केषाश्चिद् इति / विपर्ययवर्जानां षण्णामित्यर्थः / व्यभिचारदर्शनेन निराकुर्वताऽनित्यदोषत्वं विपर्यस्य भामहेनाप्यभ्युपगतमेवेति भावः / यद्यप्याधिक्यमन्यथा न्याय्य 1. प्रकृतिद्वारेणेति ग. 2. // 2 सम्बन्धित्वात् क. ग. 2. // 3 वा ग. 2 4 -नु पद्यमाना ग. 2 // 5. प्रकृति ग. 2. // 6 उपाय // 7. -स्वभावलक्षणव्यापारा ग. 2 // 8. प्रतिकृतिद्वारेणेति // 9 हीनतादय इति...प्रत्युतोक्तमित्यर्थः / इति नास्ति ग. 1 पुस्तके // 10. स्वरूपमात्रेति...प्रतिबिम्ब इत्यर्थः इति पाठो ग. 1 पुस्तके नास्ति // 11. व्यभिचारदर्शनेन...मेवेति भावः इति ग. 1 पुस्तके नास्ति //