SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 245 मिवाद्यत्र न श्रूयत इति विमर्शात् लुप्तत्वमित्यर्थः / अवयवान्तराणि इति / पत्रचक्रवाकप्रभृतीनि // अथोपमादोषाः। . एषामिति / अलङ्कारपृष्ठवर्ती श्लोकोऽयमित्येतच्छब्देनोक्तानामलङ्काराणां निर्देशः / उक्तेषु इति दोषेषु / अन्यरूपम् इति उपमानरूपमुपमेयरूपं वा / चिन्तारत्नमिवेत्यत्र 5 युष्मदर्थविश्रान्तत्वात् च्युतत्वलक्षणो धर्मो यथोपमेयरूपः पुल्लिङ्गत्वेनोपात्तः / सक्तव इत्यत्र तु शुद्धत्वलक्षणो धर्मो बहुवचनान्तत्वेन प्रतीयमानेनापि धर्मेणेतिशब्देनानुपात्तेनोभयानुगमक्षमेण शब्दोपात्तच्युतत्वादिव्यतिरिक्तेन केनचिदित्यर्थः / अनिर्वाहाद् इति / सविशेषणत्वं निर्विशेषणत्वं वा यदुपमेये प्रक्रान्तमुपमाने तस्या निर्वाहादित्यर्थः / अभ्यासलक्षणः इति / पौनःपुन्यरूपः / वाक्यभेदः इति / द्वे वाक्ये स्यातामित्यर्थः / स्वरूप- 10 भेदं नापद्यत इति / यथा अनर्धरित्यादि असदृश इत्यादि च गुणादिषूपमेयेषु पुल्लिङ्गेषु तद्वेष इत्यत्रैकवचनान्ते च रत्नादिषूपमानेषु नपुंसकलिङ्गेषु विभ्रमा इत्यत्र बहुवचनान्ते च सम्बध्यमानं स्वरूपं न जहात्येव / ने तथा इति / न तद्विदां प्रसिद्धेन प्रकारेण / अन्यस्य इति निमन्त्रणादेः / धर्मान्तरम् इति / आप्त्यादिलक्षणात् कालादिभेदावभासकाद्धर्मादन्यस्तदनवभासको धर्मो 15 धर्मान्तरम् / प्रकृत इति / प्रकृतो धर्मः कालादिभेदावभासक आपेत्यादिकः / सामान्यधर्मण इति कालादिभेदावभासकेन / सत्यवादी इति / सत्यवादित्वधर्मस्य प्रतीयमानस्योपादानेनोपमाप्रतिपत्तिर्भविष्यति ततः सत्यं वदतीत्येतदुपमेय एव योजयिष्यत इत्यर्थः / आस्यादिव इति / उत्प्रेक्षेयम् / धनुमण्डल इति / आस्यविशेषगमिदम् / जाज्वल्यमाना इव इति / जाज्वल्यमाना वारिधारा इव दीप्ताः शरा इति सम्बन्धः / परिवेषिणः 20 इति / अनेन धनुर्मण्डलमध्यभाक्त्वं प्रतिरूपितम् / परप्रसिद्धयेदमिह दोषोदाहरणत्वेन प्रदर्शितम् / यावता निर्दोषोपमात्वमस्योत्प्रेक्षायां निर्णेष्यते तेनोन्निद्रस्यारविन्दस्य मध्यगा चन्द्रिका यथेत्युदाहार्यम् / तत्र हि शब्दोपात्तया मध्यगतचन्द्रिकया विरुध्यमानमुन्निद्रत्वं न कथञ्चिदिष्यत इति // हीनता इति / उपमेये बहवो धर्मा न तावन्त उपमान इत्यर्थः / विपर्ययः 25 इति / उपमानजातिप्रमाणगतहीनत्वाधिकत्वकृत उपमेय जातिप्रमाणगतहीनत्वाधिकत्वरूप .. 1. न तथेति...निमन्त्रणादेः / नास्ति पाठोऽयं ग. 1 पुस्तके // 2. कालादिभेदावभासकाद्...न कथञ्चिदिध्यत इति / ग. 1 प्रतौ नास्ति / ग. प्रतौ तु तत्स्थाने प्रकृताद्धर्मादन्यो धर्मो धर्मान्तरम् एतावानेव पाठः // 3. -मेय -ग. १॥४-कृत......हीनत्वाधिकस्व-अयं पाठो नास्ति ग. 1 पुस्तके //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy