________________ 244 कल्पलताविवेके विशिष्ट उत्सवो निवर्तते रणश्च प्रवर्तते इति, शिरांसि निवर्तन्ते महासिधाराश्च प्रवर्तन्ते इति च परिवृत्ती स्तः, किन्तु न तयोस्तथा साम्यप्रतीतिरस्ति / एवमुत्तरत्राऽपि विचार्यम् / खड्गप्रहारम् इति / अत्र बहूनां भूभुजां स्वसम्बन्धिधर्म्यवकाशे धर्मान्तरं परिवृत्तं पूर्वोक्तमिति उभयोर्वर्ण्यमानत्वात् परिवृत्तिर्नालङ्कारः / साम्यं चेदतिरिच्यते भवत्युपमि5 तिरेवालङ्कतिरिति / एकस्मिन् इति / परिवृत्तिलक्षणे / वाक्यार्थोपमेयमिति / अन्येषां प्रतिवस्तूपमेयम्। सिवेणे वि इति / विदर्शनाप्रकारस्याऽस्य यद्यप्युपैमात्वमग्रे साधयिष्यते तथाऽपि पूर्वमेव बुद्धौ सिद्धत्वादत्रेदमुदाहृतम् / उपमितिः एव इति / अन्येषां तु विदर्शनाप्रकार एवायम् / अभवद्वस्तुसम्बन्धस्योपमापरिकल्पकस्य विद्यमानत्वात् / .. __ अन्यत्र इति / उत्प्रेक्षायामुपमायां च / इवादीनामर्थस्य इति / वस्त्वन्तरसादृश्य 10 वस्त्वन्तरत्वनिश्चयश्चेत्युभयरूपो ह्यर्थ इवादीनामुत्प्रेक्षायां सहृदयैः परिकल्प्यते / अत एव तदिवेति तदेवेति वा द्वाभ्यां प्रकाराभ्यां प्रस्तुतव्यतिरिक्ततात्पर्यान्तरयोजनमुत्प्रेक्षा वक्यते तत एव साम्यादेरित्यत्रादिग्रहणेन द्वितीयार्थपरिग्रहः / उपमायां तु सादृश्यरूप एवैकोऽर्थः / तत्र च सम्भवद्वाच्यार्थी या विदर्शना तस्या उत्प्रेक्षायामन्तर्भावः / असम्भव द्वाच्यार्थायां चोपमायामित्यर्थः / बोधयन् इति बोधयन्नेव बोधयन्निव वेत्यर्थः / प्रतिपादकम् 15 इति इवादि / वाक्य - इति / क्रियैव वाक्ये प्रधानमिति न पूर्वापरव्याघातः / क्रियापद इति पुलु अन्तीत्यस्य / पूर्वोक्तम् इति / यथाऽत्रोत्प्रेक्षायाः प्रतीयमानत्वं तद्वदेव चायम् / मन्दद्युतिरित्यत्र इति / विद्वद्भिः इति उद्भटप्रभृतिभिः / क्रमेण चाौंदित इति / अत्राचकर्षेति क्रियापदम् अन्यथानुपपद्यमानं मदप्रभेत्यत्रोपचारं प्रकल्पयदुपमायाः प्रतिपादकतां प्राप्नोतीत्यर्थः // 20 पृथगष्टविधवेन इति / काश्चिदभिधीयमाने धर्मे काश्चिच्च प्रतीयमाने इत्यर्थः / लोपे सामान्यधर्मस्य इति / सामान्यधर्मस्य द्योतकस्य चेति द्वयोलोंपे इति संबन्धः / वाक्याथें इति / वाक्यार्थाभ्यां य एको वाक्यार्थस्तस्मिन् / लुप्तपूर्ण- इति / राजीवमिव ते वक्त्रमित्यादावुचरिते कीदृगित्याकाङ्क्षायां धर्मस्याश्रवगात् प्राक् लुप्तत्वमनन्तरं विमर्शप्रवृत्तौ चारुत्वादेः प्रतीयमानत्वात् पूर्णत्वमित्यर्थः / तन्त्रेण इति / येन ध्वस्तेत्यत्र यथोमाधव25 माधवयोरभिधानं न तथाऽत्र, किन्तु मुखपुण्डरीकयोरितरेतरयोगेनोक्तयोः प्रतीयते यत् सादृश्यं तस्योपमाविवक्षेत्यर्थः / पूर्णलुप्तेति / त्वन्मुखं पुण्डरीकं च फुल्ले इत्यादावुचरिते समनन्तरमेवोभयगतस्य सादृश्यस्य प्रतीयमानत्वात् पूर्णत्वं, पश्चाच्च तत्प्रतिपादक 1. -सम्बन्धे धर्ये ग 2. // 2 सिविणे क. ग. 2. // 3. उपमानत्व- ग. 2. // 4. विदर्शिता- ग. 2 // 5 ए- ग. 2. // 6. तात्पर्यान्त इत्यर्थः / ख. पुस्तके एव // 7. तथा ग. 2. // 8. प्रति प्रति- ग. 2. // 9. स पृथग- ग. 2 //