SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 243 पदार्थानाम् इति / पुराणानां सद्भूतानां चेत्यर्थः / तत्स्वरूपम् इति वर्ण्यमानस्य स्वरूपम् / तत्पूर्वानुभवे इति ते शशाङ्कादयः पूर्वं यस्य, स चासावनुभवश्चेति तस्मिन् / उपमान्तरेण इति / उपमाविशेषेण कल्पितोपमालक्षणेन / तद् इति / उपमाविशेषत्वेनाऽभ्युपगतस्यानन्वयस्येत्यर्थः / एवंविधम् इति / कल्पितोपमायामसद्भूतस्य पदार्थस्याऽनन्वये तु तत्स्वरूपस्यैव समारोपितव्यतिरेकस्योपमानता परिकल्पनलक्षणम् / / प्रत्येकम् इति तुल्यतया वर्णनीयत्वे सति / नियम इति / इदमलङ्कार्यमेवास्य चेदमलङ्करणमेवेत्येवंरूपस्य नियमस्य / रूपान्तर इति वर्ण्यमानवरूपादन्यस्य सादृश्यरूपस्य / भूषणत्वम् इति उपमालङ्कारत्वमित्यर्थः / सादृश्यम् इति सदृशंभावः / वर्ण्यमानवाद् इति / पदार्थानां वर्ण्यमानभावादित्यर्थः / उपमितिः इति न तुल्ययोगितेत्यर्थः समुचितोपमायाम् इति। यथोपमाप्रकारत्वेन समुच्चितोपमा तत्र भवद्भिरप्यभ्युपगम्यते तथा 10 तुल्ययोगिताप्यभ्युपगम्यतामित्यर्थः / प्रस्तुतत्वाद् इति / दयितदर्शनोपयोगिपत्रलेखाशेषनिवर्तननिमित्तदृष्टिदानविषयत्वेनेत्यर्थः / दरै रैइय इति / अत्र दृष्टिदानविषयत्ववर्णनीयतया यथा दिनकरः प्रस्तुतस्तथा दर्पणोऽपि प्रस्तुतः सन्नेव साम्यसमन्वयातिरेकादलङ्करणायोपमानत्वेनोपदर्शितः / यत्काव्यार्थ इति / अत्र काव्यार्थनिरूपणादीनां साध्येनाश्वासनाभूमिवेन तुल्यतया वर्णनीयत्वेऽपि सादृश्यमतिरिच्यत इत्युपमैवेत्यर्थः / एवमुनरत्र / अलङ्करणम् 15 इति उपमेत्यर्थः / पराङ्गखम् इति प्रस्तुतोपकारकत्वम् / इह इति तुल्ययोगितायाम् / तद् इति पराङ्गत्वमलङ्कारत्वमित्यर्थः / विचारितम् इति / वर्णनीयत्वेऽपि सादृश्यमतिरिच्यत इति न काचित् क्षतिरित्यर्थः / पूर्ववदेव इति / इदं हि तन्त्रेणोपात्तत्वादुपमित्यलङ्कतिभवनेऽपि योजितम् / तुल्ययोगितायामिवेत्युपमानसामर्थ्यादेव च समुच्चितोपमावदित्येतदपि समाकृष्टम् / सदयं बुभुजे इति / समुच्चितोप- 20 मोदाहरणमिदमुपमानत्वेन निदर्शितम् / अयं रणः इति / अत्र महासिधाराणामुत्पलस्रजां च प्रवर्त्तमानानां निवर्तमानानां च नीलत्वदीर्धत्वादिना साम्यं प्रतीयत एव / तथा मङ्गलतूर्य 1. मुखानुभवस्य // 2. -ष-ग. 2. // 3 -ता-ग. 2 // 4. ग. 2 पुस्तके 'त्व' इति पाठो नास्ति // 5. -शः ग. 1 // वर्ण्यमानभावादित्यर्थः... विषयत्वेनेत्यर्थः / अयं पाठः ग. 1 पुस्तके नास्ति // 7 दर रइय इति / अस्मात्प्राग् इति सम्बन्धः इति पाठो ग. 1 पुस्तके वर्तते // 8. रय क // 9. 'यत्काव्यार्थेति' इत्यारभ्य ‘एवमुत्तरत्र' इत्यन्तः पाठो ग. 1 पुस्तके नास्ति // 10. पराङ्गत्वम् इत्यारभ्य 'तुल्ययोगितायां' इत्यन्तः पाठो नास्ति ग. 1 पुस्तके // 11. -स्वमिति इत्यतः क्षतिरित्यर्थः इत्यवधिकः पाठो नास्ति ग पुस्तके // ग 1 पुस्तके तु -स्वमिति इत्यस्मात्प्राक् 'क' अधिकः पठितः // 12 'इदं हि...योजितम्' इत्यस्य स्थाने 'एक दः काकाक्षिगोलकन्यायेनोभयत्र सम्बद्धः' इति पाठः ग. 1. पुस्तके वर्तते / तुल्ययोगितायामिवे...समाकृष्टम् / इति पाठश्च तत्र नास्ति // तन पववच्छ०५. मग
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy