SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 242 कल्पलताविवेके अत्र हि पदार्थसाम्यसमन्वयावसायपूर्विका वाक्यार्थप्रतिपत्तिर्न तु पदार्थावबोधसमनन्तरं समासप्रतिपत्तिः / समस्तैरसमस्तैर्वा पदार्थैर्वाक्यार्थप्रतिपत्तिस्ततः साम्यसमन्वयावसाय इति / धर्मधर्मी इति / धर्मधर्मिभावसम्बन्धनिबन्धनाऽपि मुख्यस्यार्थस्यामुख्येनार्थेन प्रत्यासत्तिरभेदोपचारेग धर्मधर्मिभावलक्षणेत्युक्ता / तेन धर्मधर्मिभावस्वरूपाया इत्यर्थः / 5 गुणमात्रे इति / धर्ममात्रेऽस्याभिप्राय इति रूपकत्वमेतन्मते कथमत्र निवार्येतेति ताटस्थ्येनोक्तिः / यान्त्या मुहुः इति / अत्र आवृत्तवृत्तेत्यत्र निभशब्देन सह समास उपमाप्रतिपादकः / निभादयो हि शब्दाः समासस्था एवोपमावाचका इत्येवमुक्तम् / माञ्जिष्ठी कृतेति / अत्र छत्रायमाण इनि क्यप्रत्ययः / इत्याकर्णितेति / अत्र कुञ्जरवदिति वतिः। 10 रामेण इति / अत्र मृणालभञ्जमिति णमुल् / सामर्थ्य इति / वाक्यार्थवस्तुनोः सादृश्य सम्बन्धमन्तरेण वाक्यैकवाक्यता नोपपद्यत इत्यन्यथानुपपत्तिलक्षणस्य सामर्थ्यस्य तत्स्वरूपेति तच्छब्देनोपमेयोपमापरामर्शः / मदिरामद इति सुरामदेनातानं वक्त्रम् / अम्भोजं तु सुरामदवदाताम्रम् / अत्र च पक्षे मदशब्दा मदविकारे रक्तत्वे ज्ञेयः। अलङ्कारान्तरवस्य इति उपमेयोपमात्वस्य / न चोपमान इति / अनयोः सदृशमन्यन्नास्तीति कृत्वा / तात्पर्या15 न्तरम् इति सादृश्यतात्पर्यादन्यत् / अभिधाप्रकार - इति / पर्यायेणैकस्यैवोपमानत्वोपमेयत्वलक्षणम् / वाक्यान्तरेषु इति / उपमोदाहरणत्वेन प्रसिद्धेषु। वैचित्र्यान्तराणि इति / चक्षुरिव पद्म पद्ममिव चक्षुरित्येवं रूपवैचित्र्यादन्यानि, पद्मं च चक्षुश्च द्वे अपि परस्परतुलामधिरोहतामित्यादिरूपाणि दृश्यन्ते इति / न च तेष्वलङ्कारान्तरत्वप्रसिद्धिरित्यर्थः / तद्वल्गुना 20 मातोऽलङ्कारान्तरत्वं वक्तव्यं स्यात् / पूर्वत्र हि वाक्यानेकत्वेन परस्परसाम्यप्रतीतिः, इह तु वाक्यैकत्वेनेत्यभिप्रायः। ___येथा कल्पितोपमा इति / यथा कल्पितोपमोपमाप्रकारत्वेन तत्र भवद्भिरऽभ्युपगम्यते एवमनन्वयोऽपि तथाऽभ्युपगम्यतामित्यर्थः / तल्लक्षण-इति / तच्छब्देन कल्पि तोपमापरामर्शः / उभौ यदि इति / अत्र मुक्तालतावत्त्वस्य धर्मस्यादिग्रहणात् कुमुद25 दलेत्यत्र स्तनावरणस्य वस्तुनश्च विवक्षितसातिशयत्वसम्पत्तये गङ्गाप्रवाहद्वयपतनं धर्मान्तरं च्युतदीधितित्वमुपमानं च परिकल्पितम् / सौन्दर्याधारेति / प्राप्तोत्कर्षस्य धर्मस्य चेत्यर्थः / 1. सामर्थ्यति...रित्यर्थः / अयम् पाठः ग. 1. पुस्तके नास्ति // 2. तदात्राप्युपमेयोपमातोऽलङ्कारान्तरत्वम् / इति पाठः ग. 1. पुस्तके / ग पुस्तके तु तदोपमेयोपमावदलङ्कारान्तरत्वम् इति पाठः वर्तते // 3 वाक्यत्वे ग. 1 // 4 यथा कल्पितोपमेति इत्यारभ्य सदृशभावः इत्यवधिकः पाठो ग. 1 पुस्तके न दृश्यते // ५-य-क. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy