________________ 241 अर्थालङ्कारनिर्णयः ऽभिधानात् शब्दभेदेन स तत्रोपन्यसनीयः / प्रतिबिम्ब इति / धर्मः स एव निबन्धनीय इति, तं विमुच्य // काव्यलक्षणेषु इति / लक्षणापरपर्यायस्य व्यापारस्य प्राधान्ये काव्यगीर्भवेदित्युक्तत्वात्तत्सद्भाव एव हि काव्यमित्येष शब्दः प्रवर्तते / नायम् इति अलङ्कार्यस्य काव्यत्वस्याभावात् / लक्षणं तु इति / इदमनेन शब्देनानयेतिकर्तव्यतयाऽमुनाशये- 5 नैवम्भूतबुद्धिजननाय ब्रुवे इति कविः प्रवर्त्तते इति कविव्यापारो लक्षणशब्दवाच्य इति युक्तचरं पल्लवे / मुनिना हि इति / यतो लक्षगानि मुनिना प्रणीतान्यतो बन्धशब्दस्तत्पर्यायतया व्याख्यातः / सम्बध्यते इति / विशेषणविशेष्यतयेत्यर्थः / तेन इति यत उपमितिरन्ययोर्न सम्भवति / एकस्य इति / अत्र षठ्यन्तान्युपमेयस्य तृतीयान्तान्युपमानस्य प्रतिपादकानि / उपमान इति उपमानत्वेनाऽभिमता इत्यर्थः / उपमानता 10 इति / सम्पूर्णचन्द्रादीनामित्यर्थः / सलोप इव इति / क्वचिदिष्टः कचिन्नेष्टः इत्यर्थः / तेन चन्द्रदलपदयोन लोपः / अनयोहि धर्मो धर्मिण्यवयवी चावयवे उपचर्यत इति चन्द्रगतसम्पूर्णत्वनीलोत्पलयोरुपमानतायामुपमानपूर्वता न्यायसिद्धा / एवं मत्तमातङ्गत्वं तद्गतगमने उपचरणीयमथवा विशेषणविशिष्टमुपमानमिति तद्विशेषणावयवः सम्पूर्णत्वादिरप्युपचारादुपमानमिति / मीलनम् इति / अभेदाध्यवसानम् / विवक्षित- इति / अर्थात् 15 प्रस्तुते वक्तुमभिप्रेतस्य / मनोहारिवातिशयवता इति / यत् प्रस्तुतगतत्वेन विवक्षितधर्मसम्बन्धि मनोहारित्वं तस्य सातिशयस्याप्रस्तुते सिद्धत्वादित्यर्थः / विच्छित्त्या इति वैदग्ध्यभङ्ग्या / तद्विरहेणाभिधाने हि तद्विदाह्लादकत्वं न सम्भवति / संवादकः इति / तदन्तीनवृत्तिः संवद्यर्थो विद्यत एव, संवदतीति संवादक इति / प्रतिपन्न - इति / उप- 20 मायाः साधारणधर्मस्य च प्रतीतिमात्रादेव वेत्यर्थः / क्रियापद इति / क्रियापदादिवाचकोक्त्यभावेन प्रतिवस्तूपमादयः साधारणधर्मोक्त्यभावेन च वाक्यसमासादिगताः धर्मलोपिन्य उपमाः संगृहीताः / उपमान- इति उपमानत्वानुपपत्तेः / एककर्तृकयोः इति / लिम्पतीव तमोऽङ्गानि इति / कुङ्कुममिव लिम्पति तमोङ्गानीति चोभयत्र व्यापनस्य लेपनरूपतयाऽध्यवसितत्वे समानेऽप्येकत्र तमःकर्तृकयोरवस्तुवस्तुरूपयोर्लिम्पतिव्याप्नोत्योः 25 साम्यमुत्प्रेक्षैव / अपरत्र तु भिन्नकर्तृकयोस्तयोः साम्ये सुबन्तस्योपमानतायामुपमैवेत्यर्थः / समासादि इति / आदिग्रहणात् वाक्यार्थपरिग्रहः / पदार्थोपमाव्यपदेशः इति / 1. नास्ति अयं पाठः ग. 2 पुस्तके // 2. काव्य ख. पुस्तके एव // 3. क्रियापदे वादितात्पर्यपर्यायः // 4. नास्ति ग. 2 पुस्तके //