________________ अर्थालङ्कारनिर्णयः 231 ___ यद्येवं तदत्र नास्त्येव नियम इत्याह-कश्चित् कचिद् इति / यदि हि सर्वोऽर्थः सर्वत्र च विपर्यय यायात्तत् स्यादेवम् / न चैतत् / अपि तु कश्चिदेवार्थधर्मनियमो विपर्यय यातः / कथं विपर्ययं यातीत्याह-अतिलोकम् इति / लोकानामतिक्रमो यत्र तदतिलोकं यानम् / अत एव चातिशयत्वं यदतीत्य सर्वलोकं कश्चित् कचिद्विपर्ययं याति, लोकानतिगतोऽतिलोको वा विपर्ययः / तस्येत्युत्तरार्यया सम्बध्यते / यत्रैकमनेकार्थः इति / यत्र 5 वाक्यमनेकस्मिन्नर्थे निश्चयं कुरुते सोऽर्थश्लेषो बोद्धव्यः / अर्थग्रहणं शब्दार्थविषयत्वेन श्लेषस्योभयरूपत्वस्मरणार्थम् / कदाचित्तद्वाक्यमनेकं स्यात्तदवश्यमनेकार्थप्रतिपादकं भवेदित्याह-एकम् इति / एकं चेत् कथमनेकार्थनिश्चयकारीत्याह-अनेकार्थैः पदै रचितम इति / एकग्रहणं शब्दश्लेषादस्य विशेषख्यापनार्थम् / तत्र हि युगपदनेकं विधीयते वाक्यम् / किञ्च तत्र शब्दानां श्लेषोऽत्र त्वर्थानाम् / शुद्धस्य इति / शुद्धस्यैव सतोऽस्य 10 दश भेदाः / अलङ्कारान्तरसंस्पर्श त्वनन्ता इत्यर्थः / ततः कुमुदनाथेन इति / अत्र यद्यपि कामिनीकपोलः उपमानत्वेन निर्दिष्टस्तथाऽपि मुखावयवरूपत्वादस्य मुखमेवोपमानतया द्रष्टव्यम् / अत एव वक्ष्यति-चन्द्रमुखादीनाम् इत्यादि / येन इति स्वसादृश्यपरिप्रापकतया येन करणभूतेनेत्यर्थः / तेन इति करगभूतेन / अप्रसिद्धम् इति / सौन्दर्यादिगुणयोगित्वेन न प्रसिद्धमित्यर्थः / व्याख्येयः इति / प्राकरणिकं प्रधानमेवा- 15 प्राकरणिकं त्वप्रधानमेवेत्याशयः / परभृताया इव इति / परभृताया वचनमिवास्या / वचनं मनोहरम् / शब्दो ह्यम्बरगुणः इति / गुणोऽत्र प्रवृत्तिनिमित्तम् / विषाणित्वम् इति / विषाणसमवाय इव दंष्ट्रासमवायो हिंस्रः। गुणस्य इति / गुणः शब्दप्रवृत्तिनिमित्तं द्रव्यगतो धर्मः, गुणो भावो धर्म इत्यनान्तरम् / द्रव्ये यत् संसृष्टं तद्धर्मत्वेन प्रसिद्ध वस्तु जात्यादि / संसर्गित्वादेव तस्य द्रव्यस्य द्रव्यान्तरेभ्यो भेदकम् / अत एव भेदकरणात् 20 सव्यापारं निवत्तेनाख्येन व्यापारेण योगात् / तस्याऽस्य वस्तुनः परं प्रति भेदकत्वेनोपात्तस्य तेन परेण परतन्त्रत्वात् पणिनीये शास्त्रे गुणत्वमुदाहृतम् / यदुक्तम् संसर्गि भेदकं यद्यत् सव्यापारं प्रतीयते / गुणत्वं परतन्त्रत्वात्तस्य शास्त्रे उदाहृतम् // भावात् सद्भावात् / द्रव्य इति वस्तूपलेक्षणत्वेन प्रसिद्धमिदम् / तद इति सर्वनाम / 25 यत्र कचित् प्रयुज्यते जातौ गुणे क्रियायां वा, जातिरियमयं गुणः क्रियेयमिति / स 1. शुद्धस्यैवेति ग 1 // 2. संपर्के क. ग. // 3. येन इति...... त्वप्रधानमेवेत्याशयः / नास्ति पाठोऽयं ग. 1 पुस्तके // 4. गुणस्येति ...... जातिसङ्घाते इति-पाठोऽयं ग 1 पुस्तके न दृश्यते // 5. दर्शकत्वेन //