________________ 232 : कल्पलताधिवेके सर्व एवार्थो व्याकरणे भेद्यत्वेनेदमित्यादिभिः पुरोवर्त्तित्वादिधर्मेंर्विशेष्यत्वेन विवक्षितो द्रव्यमित्यनुपचारेणैवोच्यते / भेद्यत्वस्य द्रव्यलक्षणत्वात् / यदाह वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते / / द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः // 5 तत्र गोशुक्लक्रियाशब्दानां गवि शुक्लगुणे क्रियायां च भेद्यत्वेन द्रव्यशब्दाभिधेये वर्तमानानां गवादिजातिः प्रवृत्तिनिमित्तमिति जातौ वाच्यायां भावप्रत्ययः, गोत्वं गोजातिः शुक्लत्वं शुक्लगुणजातिः क्रियात्वं क्रियाजातिः / यदा तु शुक्लशब्दः सोऽयमित्यभेदान्मतुब्लोपाद्वा पटद्रव्ये वर्तते तदा तस्मिन्नेव गुणे भावप्रत्ययः इति / शुक्लस्य पटस्य भावः शुक्लत्वं शुक्लगुणः / समासकृत्तद्धितेषु सम्बन्धे वाच्ये भावप्रत्ययः / राजपुरुषत्वं पाचकत्वम् 10 औपगवत्वम् / एषु स्वस्वामिक्रियाकारकाऽपत्यापत्यवत्सम्बन्धाः / स्वार्थिकास्तु गुण वचना एवेति गुणे एव विशिष्टे प्रत्ययः शुक्लतरत्वम् / ये तु कृत्तद्धितान्ता अपि रूढाः कस्याञ्चिजातौ कुम्भकारः क्षत्रिय इत्यादयः, ये च प्रत्यये ऽपि कृते प्रकृतेरभिन्नरूपाः शुक्लादयो मतुपो लुकि रूपस्याभेदात् , तेषु सम्बन्धस्य प्रवृत्तिनिमित्तत्वं परमार्थतो नास्ति / जातिवचनः कृत्तद्धितान्तो रूढया गुणवचनश्च तद्वितान्त इति जातादेव गुण एव च तत्र 15 भावप्रत्ययः / कुम्भकारत्वं क्षत्रियत्वं शुक्कोऽस्यास्तीति शुक्ल: पटस्तस्य भावः शुक्लत्वम् / यश्च स न विद्यमान इत्यादिव्यभिचरितः सम्बन्धः पदार्थमात्रे सदित्यादि कृदन्तस्य तस्य वृत्तेस्तत्रापि जातावेव रूढत्वात्। तत्रैव प्रत्ययो न सम्बन्थे / सत्त्वं विद्यमानत्वम् / डित्थादेस्तु यदृच्छाशब्दादन्यस्य प्रवृत्तिनिमित्तस्यासम्भवात्तस्मिन्नेव स्वरूपे डित्थशब्दवाच्यतया ऽध्यवसिताभेदे अव्यतिरिक्तेऽपि व्यतिरिक्त इव शब्दप्रत्ययबलाद् बुद्ध्यावगृहीते धर्मे भाव20 प्रत्ययः / डित्थस्य भावः स्वरूपं डिस्थत्वम् / द्वन्द्वे तु समासे स्वप्रधानत्वात्तदवयवानां सम्बन्धस्य प्रवृत्तिनिमित्तत्वं नास्तीति स एव जात्यादिसङ्घातो जात्यादिशब्दानां प्रवृत्तिनिमित्तं भावप्रत्ययेनोच्यते / धवखदिरत्वं रूपरसत्वं पटस्य शुक्लकृष्णत्वे इति / तदाहुः जातिगुणाज्जातिगुंणे समासकृत्तद्धिताच्च सम्बन्धे / डित्थादेः स्वस्वे रूपे धवखदिराजातिसङ्घाते / / इति 25. सुषुप्ते इव इति / सुषुप्ते सुखदुःखाद्यभाव इव मोक्षे सुखदुःखाद्यभाव इत्यर्थः / उप मानतया इति। उपमानविशेषणा इत्यस्य व्याख्येयम् / तथैव इति / यथेवादिसद्भावप्रकारेणैव श्रौतीत्यर्थः। तेन इति / चन्द्रेण तुल्यं मुखम् / तद् इति चन्द्रबिम्बं तुल्यं मुखस्य / 1. आकृतिग्रहणेत्याडित्थायाम् / ख पुस्तके एव // 2. शन्दस्य ख. पुस्तके एव // 3. जातौ ख. // 4. त्वतलौ स्तो जातिगुणे वाच्ये, एवमग्रेऽपि //