SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 230 कल्पलताविवेके वस्तुनः सामान्यविशेषरूपभेदेन द्विविधं सम्यक्त्वम् / यथा रम्यं तव मुखमिन्दुरिव, रम्यं तव मुखमिति च / तत्र पूर्वं यत्सम्यक्त्वं तदन्यथात्वं पुरा निषिद्धम् / विशिष्टसम्यक्त्वान्यथाभावस्त्वनेन निषिध्यत इत्याहुः / तेन विशिष्टतरं वस्त्वभिधातुमिति सम्यक्शब्दार्थः / अभिदध्यादिति कर्तृपदेनैव वक्त्रर्थे लब्धे वक्तग्रहणं तद्विशेषप्रतिपत्त्यर्थम् / रक्तविरक्त5 मध्यस्था हि त्रयो वक्तारः / तेन यादृग्वक्ता येन रूपेण वस्तु प्रतिपिपादयिषति तादृशमेव यत्र वस्त्वन्तरमभिदध्यात्तदौपम्यमित्यर्थः / एकमेव हि वस्तु रक्तो वक्ता स्तुवन्नुपमयति / यथा अमृतस्येव कुण्डानि सुखानामिव राशयः / रतेरिव निधानानि निर्मिताः केन योषितः / विरक्तो निन्दन् यथा मांसासृक्श्लेष्ममेदोऽस्थि-विष्ठापूयादिसङ्कले / सकृमौ नरकाकारे पिण्डे स्त्रीनाम्नि का रतिः // मध्यस्थस्तु स्वरूपमात्रं वक्ति / यथा दर्शनादेव नटवद्धरन्ति हृदयं स्त्रियः / विश्वस्ते चाऽप्यविश्वस्ता भवन्ति च चरा इव // यत्रोपमानोपमेयभावः श्रौतः प्रातीतिको वा सामान्यमपि वा तदौपम्यमिति तात्पर्यार्थोऽत्र, तेन संशयादयोऽप्येतभेदा एव / यत्रार्थधर्मनियमः इति / सोऽतिशयो नामालङ्कार इत्यनेन प्रकारेण स्यात् / यत्रार्थधर्मनियमो विपर्ययं याति–अर्थस्याग्न्यादेयों धर्म औष्ण्यादिकस्तस्य यो नियमोऽवश्यंभावः स विपर्ययसद्भावं याति / नियमश्चेत् 20 कथं विपर्यय इत्याह-प्रसिद्धिबाधाद् इति / उष्णं दहतीत्यादिका या प्रसिद्धिः ख्यातिः सा बाध्यते / तद्बाधनाच्च विपर्यस्तो यत्रार्थधर्मनियमः सोऽतिशयः / यथा वह्नि शीतयितुं स्थलं जलयितुं वातं निरोदु रयात् मूर्त व्योम विधातुमुन्नमयितुं नेतुं नतिं वा महीम् / उद्धर्तुं कुलभूभृतः स्थलयितुं सिन्धुं च सम्भाव्यते शक्तिर्यस्य नृपैः स एव नृपतिः शेषाः पुनः पार्थिवाः / यथा च यां ज्वलन्न ददाहाग्निः साप्यत्यन्तपतिव्रता / सीता स्पृष्टाऽपवादेन कः खलानामगोचरः / / . 1. साधारणो धर्म एवमेव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy