SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ [अथ अर्थालङ्कारनिर्णयो नाम चतुर्थः परिच्छेदः ] चतुः इति / समस्तविषयस्यैकदेशवर्तिनश्च प्रत्येकं द्वैविध्याच्चतुर्दैत्यर्थः / वास्तवम् इति / यद्वस्तुस्वरूपस्य कथनं क्रियते तद्वास्तवमिति ज्ञेयम् / वस्तुन इदं वास्तवम् / इतिरर्थनिर्देशे / वास्तवशब्दवाच्यः सोऽर्थ इत्यर्थः / वस्तुकथनमित्येतावतैव स्वरूपार्थे लब्धे स्वरूपग्रहणं 'विशेषणप्रतिपत्त्यर्थमित्याहुः / तेन सिंहः प्रसेनमवधीसिंहो जाम्बवता हतः / सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः / / इत्यस्य वास्तवत्वं न भवति तदसत् / वक्ष्यमाणानां वास्तवप्रभेदानां कुत्रचिद्विशेषणायोगात् / न ह्युत्तरत्र सर्वत्रैव सविशेषणं वस्तु कथितम् / सिंह इत्यादौ पुष्टार्थवादप्रसङ्गः / तस्माद्यदेव सामर्थ्यलभ्यं स्वरूपं तद्धि स्पष्टार्थ निर्दिश्यते / 10 पुष्टार्थग्रहणम् अपुष्टार्थनिवृत्त्यर्थम् / तेन गोरपत्यं बलीवर्दस्तृणान्यत्ति मुखेन सः / / मूत्रं मुञ्चति शिश्नेन अपानेन तु गोमयम् // इत्यस्याऽहृदयावर्जकत्वाद्वास्तवत्वं न भवति / अविपरीतग्रहणमविवक्षितस्यार्थस्वरूपस्य वास्तवत्वनिवृत्यर्थम् / यथा दन्तान्निर्दलयद्रसां च जडयत्तालु द्विधा स्फोटयत् ___जाड्यात् सङ्घटयद्गलं गलबिलादन्त्राणि सङ्कोचयत् / / इत्थं निर्मलकर्करीस्थमसहप्रालेयवाताहतं नाधन्याः प्रचुरं पिबन्त्यनुदिनं प्रोन्मुक्तधारं पयः // अत्र हि पयसः शीतलत्वमाह्लादकत्वं च विवक्षितं, वर्णितं च मारकत्वम् / 20 निरुपमादिग्रहणमनुवादमात्रं, न तूपमातिशयश्लेषाणां वास्तवत्वनिवृत्तये, पृथगुपादानादेव तेषामन्यत्वसिद्धेः / सम्यक् प्रतिपादयितुम् इति / यत्र प्राकरणिकं वस्तु स्वरूपतः स्वरूपविशेषेण सम्यगनन्यथा प्रतिपादयितुं वस्वन्तरमप्राकरणिकं वस्तु वक्ताऽभिदध्यात्तदौपम्यं नामालङ्कारः / वस्त्वन्तरोक्त्या कथं वस्तु स्वरूपविशेषतः प्रतिपाद्यत इत्याह- . तत्समानमिति इति / इतिहेतौ। यतो वस्त्वन्तरं प्रकृतवस्तुसदृशमतस्तेन तत् सम्यक् प्रति- 25 पाद्यतेऽत एव च तदभिधानमित्यर्थः / अथ सम्यग्ग्रहणं किमर्थं, यावता वस्तुनोऽन्यथात्वमसम्यक्त्वं तच्च प्रागेव निषिद्धं, सर्वः स्वं स्वं रूपमित्यादिना / सत्यमेतत् / किन्तु 1. वैशिष्टय // 2 प्रसेनपुत्रः // 3. येन सीमन्तो भूम्यते स मणिरेवनामा // १.विपरीत-ग. // 15
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy