________________ 204 कल्पलताविवेके सप्त समुत्पद्यन्ते / अस्मिन्नपि कियन्तः कियन्त एव च वितन्यन्ते, न च तेषु क्रियाकारकयोगस्तथाविध इति न गौरवं, ततश्च सामान्येन पदविच्छेदिनीत्युक्तेऽपि पारिशेष्यात् पदत्रययोग एवोपादीयते / तत्रापि च विंशत्युत्तरादेकस्मात् शतादुच्चीयमाना न चाक्षरायां जातौ ये विसदृशप्रस्तारस्यैकस्य सदृप्रस्ताराभ्यां द्वाभ्यां योगे त्रयः सदृक्प्रस्ताराणां त्रयाणां 5 योगे चैक इति चत्वारः सम्भवन्ति / 234 / 243 / 423 / 235 / न ते उररीकर्तव्यास्तैर्हि उत्तरोत्तरपादविकल्पेष्वाहतेषु केचिदेव निष्पद्यन्ते / ये तु सप्तदशाक्षरायां जातौ ते पुनरङ्गीकर्तव्याः / तत्र च सप्तदशाक्षरजातित्वं प्रस्ताराऽन्यत्वं चाऽन्यथा नोपपद्यत इत्याद्यस्य पदस्य सर्वत्र चतुर्थस्य यावत्सम्भवं, शेषाणां च सदृशमात्रत्वाद्यदृच्छया। तत्रापि च द्वितीयस्मिन् पादे उपादेयक्रियापदान्यथाऽनुपपत्त्या तृतीयपञ्चमयोरेकस्य सर्वत्र द्वितीय10 षष्ठयोश्च स्वेच्छयैकस्य यथासम्भवं न्यासे सदृशप्रस्तारपरिहारे च विसदृशप्रस्तारपदत्रययोगे षट्, विसदृशप्रस्तारस्यैकस्य सदृशप्रस्ताराभ्यां योगे त्रय इति नव विकल्पाः समुत्पद्यन्ते / एतेषु चान्तलघुना चतुर्थेन पदेन पादान्तवर्तिना स्वत एव विसदृशप्रस्तारं विकल्पद्वयं यद्विद्यते तदन्यतमस्यैकस्य सदृशप्रस्तारं विकल्पमेकं स्थापयित्वा सहस्रं तर्णकश्लोकाः समुत्पाद्या इति विवक्षावशेन वान्ते वक्र इति न्यायाङ्गीकरणादन्तगुरुत्वेन प्रस्तारान्यत्वमुत्पाद्य विसदृशो 15 दशमो विकल्पः परिकल्प्यः / तदितरस्य चैकस्य प्रसजन्नपि तद्विवक्षावशेनैव न न्यायोऽयमङ्गीकर्त्तव्य इत्याचे पादे दशैव विकल्पाः / 145/ 154) 415/ 451 514 541 165 251, 513/ 514 . 3 3 3 3 3 3 22/ 32 2 2 3 - अत्रायेषु षट्सु विकल्पेश्चन्त्ये च दशमे यः पञ्चमपदसूचकः पञ्चकस्तदधस्ताद्यस्त्रिकस्तत्सूचितं तृतीयं पदं पञ्चमपदस्थाने यदि वोच्चारणीयम् / सप्तमे च षष्ठस्य पदस्य स्थाने यदि वा द्वितीयतृतीयपञ्चमानां पञ्चमस्य च द्वितीयतृतीयषष्ठानां सम्भवः केवलं षष्ठे स्थिते तत्स्थाने द्वितीयस्मिन् वाऽग्रतः पञ्चमं तृतीयं वा तृतीयस्मिन् पञ्चमद्वितीयषष्ठानि 25 पञ्चमे च द्वितीयतृतीयषष्ठान्युच्चारणीयानि / एवमष्टमनवमयोरपि विकल्पयोरुन्नेयम् / एते च क्रियापदमवश्यमुपादातव्यमिति सर्वत्र पञ्चकसद्भावे द्वितीयस्मिन्नपि प्रभवन्ति, किन्तु यथासङ्ख्यविच्युतेर्भग्नप्रक्रमत्वं यथासम्भवमर्थाऽसङ्गतिश्च मा भवत्विति प्रथमपादविकल्पैर्द्वितीयपादविकल्पानाहन्तुमभिमताः / ततश्च यथासङ्ख्येनैव प्रथमद्वितीयपादद्वयविकल्पेषु स्थापितेषु प्रथमेऽढे दशैव विकल्पाः / तृतीयस्मिन्नपि पादे तावन्तः / 1. हसिता इति //