________________ शब्दालङ्कारदर्शनम् 197 सप्त समुत्पद्यन्त इति सप्तको विन्यस्तः / एत एव चाङ्का द्विकयोगमुत्पादयन्तीति द्वितीयया प्रथमाया यतेोंगे द्विकयोग एक इत्येककः स एव ततस्तृतीयया द्वितीयस्याः प्रथमायाश्च योगे द्वाविति स एव द्विकः / द्वितीयाप्रथमयोश्च योगे एक इति स एवैकक इत्येककद्विकाभ्यां मिलिताभ्यां तिसृषु यतिषु द्विकयोगास्त्रयइति त्रिकः चतुर्थ्या प्रथमादीनां तिसृगां योगे त्रय इति स एव त्रिकः / तृतीयया द्वितीयया च तथैव द्वावेकश्चेति तावेव द्विकैकको 5 मिलितैश्च त्रिभिरकैश्च तिसृषु यतिषु षडिति षट्कः / पञ्चम्या चतसृणां योगे चत्वार इति स एव चतुष्कः / चतुर्थ्यादिना तथैव त्रयो द्वावेकश्चेति त एव त्रिकद्विकैकका मिलितैश्च पञ्चसु यतिषु दशेति दशकः / एवं षट्सु पञ्चदशेति पञ्चदशकः / सप्तसु चेकविंशतिरेको त्तरया वृद्धया ऊर्बोचक्रमे ग विन्यस्तैरुपयुपरि प्रक्षिप्य मीलितैश्च द्विकयोगाः समुत्पद्यन्ते इत्येकविंशतिकः / उपरितनश्च सप्तकः सप्तभिर्यतिभिः षट्षड्भिः पञ्चपञ्चभिश्चत्वार- 10 श्चतसृभिश्च त्रयस्तिसृभिा द्वाभ्यामेकश्च द्विकयोगा सप्तम्यादिसद्भावे जायन्त इत्येकविंशतौ तेषु सप्तम्यादि यतिर्यथासम्भवं संयुच्यत इति गात्रत एका यतिश्चरितार्थत्वात् परिहार्येति परिहृतः / न तत्राऽधस्तनोऽङ्कः प्रक्षिप्त इत्यर्थः / तेन च सप्तकेनैककाः सप्तविकल्पाः सूच्यन्त इति कथितमेव प्रक्षेप्याश्चैककत्रिकादयोऽङ्कास्त्रिकयोगसमुत्पत्तये तथैव वृताः / तत्र च द्वितीयया प्रथमाया योगे द्विकयोग एको यादग् लब्धस्तादृशस्यैव तृतीयया 15 योगे त्रिकयोग एको लभ्यत इति त्रिकयोगेष्वेककः स एव तृतीयया प्राक्तन्योईयोोंगे द्विकयोगा यादृशस्त्रयो लब्धास्तादृशामेव तेषां चतुर्थ्या योगे त्रय इति स एव त्रिकः / प्रथमादियतित्रययोगे एकश्चेति स एवैकक इति चतसृषु यतिषु चत्वारस्त्रिकयोगा इति / चतुष्कः / चतुर्थ्या प्राक्तनीनां यतीनां योगे द्विकयोगा यादृशः षड् लब्धास्तादृशामेव तेषां पञ्चम्या योगे षडिति स एव षट्कः / प्रथमादीनां चतसृणां योगे त्रय इति स एव त्रिकः / 20 प्रथमादियतित्रययोगे एकश्चेति स एवैकक इति पञ्चसु यतिषु दशत्रिकयोगा इति दशकः। एवं षट्सु दश षट् त्रय एकश्चेति त एव दशकषट्कत्रिकैककाः / मिलितैश्च विंशतिरिति विंशतिकः / सप्तसु च पञ्चदश दश षट् त्रय एकश्चेति त एव पञ्चदशकदशकषट्कत्रिकैकाः मिलितैश्च पञ्चत्रिंशदिति पञ्चत्रिंशत्कः / तथा हि द्वितीयातृतीयाभ्यां प्रथमाया योगे त्रिकयोग एक इत्येककः द्वितीया- 25 चतुर्थीभ्यां प्रथमायास्तृतीयाचतुर्थीभ्यां प्रथमाया द्वितीयस्याश्च योगे त्रय इति स एव त्रिकः / प्रथमादीनां तिसृणां योगे एक इति स एवैकको मिलिताश्च चतसृषु यतिषु त्रिकयोगाश्चत्वार इति चतुष्कः चतुर्थीपञ्चमीभ्यां प्रथमादीनां तिसृणां तृतीयापञ्चमीभ्यों 1. चैकत्रि ग. // 2. पञ्चमीभ्यां प्रथमाद्वितीययोः द्वितीयापञ्चमीभ्याम् ग. //