SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ कल्पलताविके प्रथमाया योगे पडिति षटैकः तृतीयाचतुर्थीभ्यां द्वितीयाचतुर्थीभ्यां च तथैव त्रय इति त्रिकः / द्वितीयातृतीयाभ्यां तथैवैक इत्येकको मिलिताश्च पञ्चसु यतिषु दशेति दशकः / पञ्चमीषष्ठीभ्यां प्रथमादीनां चतसृणां चतुर्थीषष्ठीभ्यां प्रथमादीनां तिसृगां तृतीयाषष्ठीभ्यां प्रथमाद्वितीययोद्वितीयाषष्ठीभ्यां प्रथमायाश्च योगे दशेति दशकः / चतुर्थीपञ्चमी प्रमुखस्य 5 द्वयस्य द्वयस्य योगे तथैव षट् त्रय एकश्चेति षट्कत्रिकैकका मिलिताश्च षट्सु पदेषु विंशतिरिति विंशतिक एवं सप्तसु पदेषु पञ्चत्रिंशत् त्रिकयोगाः समुत्पद्यन्त इति पञ्चत्रिंशत्कः / अत्रापि सप्तकः षटकनिष्पन्न एकविंशतिकश्च पञ्चत्रिंशत्रिकयोगेषु द्वे द्वे यती संयुज्यते इति गात्रतो यतिद्वयं परिहार्यमिति परिहृतौ / प्रक्षेप्याश्चैककचतुष्कादयोऽङ्का चतुष्कयोगसमुत्पत्तये तथैव वृताः / तत्र च द्वितीयातृतीयाभ्यां प्रथमाया योगे त्रिकयोग 10 एको यादृग्लब्धः तादृशस्यैव चतुर्थ्या योगे चतुर्योग एको लभ्यत इति चतुष्कयोगेष्वेककः स एव / चतुर्था प्राक्तनीनां तिसृणां योगे त्रिकयोगा यादृशश्चत्वारो लब्धास्तादृशामेव तेषां पञ्चम्या योगे चत्वार इति स एव चतुष्कः प्रथमादियतिचतुष्टय योगे चैक इति स एवैककश्चेति पञ्चसु यतिषु चतुष्कयोगाः पञ्चेतिः पञ्चकः / एवं षट्सु यतिषु चतुष्कयोगा दश चत्वार एकश्चेति / त एव दशकचतुष्कैककास्तैश्च पञ्चदशेति पञ्चदशकः सप्तसु च 15 विंशतिर्दश चत्वार एकश्चेति त एव विंशतिकादयस्तैश्च चतुष्कयोगाः पञ्चत्रिंशत्समुत्पद्यन्त इति पञ्चत्रिंशत्कः / ... तथा हि द्वितीयादिभिस्तिसृभिः प्रथमाया योगे चतुष्क योग एक इत्येककः / द्वितीयातृतीयापञ्चमीभिः द्वितीयाचतुर्थीपञ्चमीभिश्च प्रथमाया योगे तृतीयाचतुर्थीपञ्चमीभिः प्रथमाया द्वितीयस्याश्च योगे चत्वार इति स एव चतुष्कः / प्रथमादियति-चतुष्टय20 योगे एक इति स एवैकको मिलिताश्च पञ्चसु यतिषु चतुष्कयोगाः पञ्चेति पञ्चकः / एवं षट्सु पदेषु चतुष्कयोगाः पञ्चदशेति पञ्चदशकः / सप्तसु पञ्चत्रिंशत्कः अमुत्राऽपि सप्तक एकविंशतिकः पञ्चकनिष्पन्नः पञ्चत्रिंशत्कश्च परिहृतः / एककपञ्चकादयश्च तथैव धृताः / एवं पञ्चानां यतीनां योग एक इत्येककः स एव पटसु पञ्चकयोगाः षडिति षट्कः सप्तसु चैकविंशतिरित्येकविंशतिकः / अमुष्मिन्नपि चत्वारोऽङ्कास्तथैव परिहृताः / 25 एककषट्कौ च तथैव धृतौ षण्णां योग एक इत्येककः स एव सप्तसु च षट्कयोगाः सप्तेति सप्तकः / उपरितनाश्चाङ्काः पञ्च तथैव परिहृताः / एककश्च तथैव धृतः / सप्तानां च योगे सप्तकयोग एक इत्येककः स एव उपरितनाश्च षडङ्काः परिहृता इति / प्रथम 1. प्रथमायाः षडिति ग. // 2. -षट्कः प्रथमाद्वितीययोः द्वितीयापञ्चमीभ्याम् जे. // 3. प्रथमाद्वितीययोः द्वितीयापञ्चमीभ्यां द्वितीयाचतुर्थीभ्यां तृतीयाचतुर्थीभ्यां च. ग. // 4 षण्णां योगे षट्कयोग- ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy