SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेक पर्वतपुत्री देवैः किन्नरगेयेति पञ्चमो देवी पर्वतपुत्री स्तुत्या किन्नरगेयेति षष्ठो वन्द्या देवीपर्वतपुत्री देवैः स्तुत्या किन्नरगेयेति च सप्तम इत्यनया स्थित्या पृष्ठश्लोकस्याऽधस्ताद्विभ्यस्ताङ्कानुमानेनोद्दिष्टं निर्देष्टव्यमिति / सङ्ग्रहश्लोकश्चात्र 5 . पठित्वा स्वेच्छया श्लोकममुकः कतमो मतः / ... इत्येवं सुधिया पृष्टेऽघोङ्करुद्दिष्टमादिशेत् // सङ्ख्या चाऽधस्ताद्विन्यस्तानां द्विगुणद्विगुणानामेककद्विकादीनामङ्कानां मीलने भवतीति प्रथमायां यतावेको द्विकयोगे त्रयस्त्रिकयोगे सप्त चतुष्कयोगे पञ्चदश पञ्चकयोगे एकत्रिंशत् षट्कयोगे त्रिषष्टिः सप्तकयोगे तु सप्तविंशत्यधिकं शतमिति / एषा च सङ्ख्या 10 क्रमेणैव योग्यमानासु यतिषु जायते / क्रमव्युत्क्रमाभ्यां तु या सङ्ख्या सा शतधेनु प्रस्तावेनोपयुज्यते इति न प्रदर्शिता / यदा च यतिसप्तकयोगे कियन्त एककाः कियन्तो द्विकयोगाः कियन्तश्च त्रिकयोगा इत्यादि प्रश्नस्तदा एगाई एगुत्तरपत्ते य पयम्मि उवरिपक्खेवो / एकेकहागि अवसाण संखया होति संजोगा // इति पारमेश्वरवचनाऽनुसारेण ऊोर्ध्वक्रमेण एकादय एकोत्तरया वृद्धया सप्त यावन्त्यसती यः / ततश्चैकको द्विके स च त्रिकस्त्रिके स च षट्कश्चतुष्के स च दशकः पञ्चके स च पञ्चदशकः षट्के निक्षिप्यते उपरितनश्च सप्तकः परिहर्त्तव्यः / न तत्र एकविंशतिकोऽङ्कः प्रक्षिप्यत इत्यर्थः / प्रक्षेप्याश्चैककादयोऽङ्कास्तथैव धरणीयाः / पुनश्चैककस्त्रिके स च चतुष्कः षट्के स च दशको दशके स च विंशतिकः पञ्चदशके निक्षिप्यते / 20 उपरितनस्त्वेकविंशतिकः परिहर्त्तव्यः / एवं पुनः पुनर्निक्षिप्योपरितनोपरितनः पञ्चत्रिंशत्के एकविंशतिकः सप्तकश्च परिहर्त्तव्यः / मौलश्चर्कस्तथैवास्त इत्युपरितनपक्षादारभ्याधोऽधः क्रमेणैककाः सप्तद्विकयोगा एकविंशतिस्त्रिकयोगाः पञ्चत्रिंशत् चतुष्कयोगास्तावन्तः पञ्चकयोगा एकविंशतिः षट्कयोगाः सप्त सप्तकयोगश्चैक इति सप्तविंशत्यधिकं शतम् / अस्य च करणस्य वासना यथा / एकादीनामङ्कानामेकोत्तरया वृद्धया ऊर्बो25 च॑क्रमेण विन्यसनेऽधस्तनमङ्कमुपर्युपरि प्रक्षिप्य द्विकादिसंयोगविकल्पसमुत्पादनमप्रक्षि. प्यैककयतिविकल्पपरिकल्पनं चेति मुख्यामुख्य कारणे प्रभवतः / तथा हि एकया यत्या एककयतिविकल्प एकः समुत्पद्यत इत्येककः द्वाभ्यां यतिभ्यामेककयतिविकल्पो द्वौ समुत्पद्यते इति द्विकः / एवं तिसृभिस्त्रय इति त्रिको यावत् सप्तभिर्यतिभिरेककयतिविकल्पाः 1. क. 2 एक-ग. ॥-श्चैककस्त-ग. // . . . . .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy