________________ शब्दालङ्कारदर्शनम् 185 आश्रयगता वृषभरणाभरणा इति। अत्र हि वृषभरणाभरणा इत्येतस्य याऽसौ विशिष्टार्थविषया शक्तिः सा तावन्न निर्वहति यावद्भरणाभरणाशब्दो द्वावनर्थको न प्रयुक्तौ तेनाऽत्राश्रयगताऽभिधा। उभयगता अञ्जनभसानभसेति / अत्र हि प्रथमस्य नभसेत्यस्य आश्रयान्तरगताऽभिधाऽञ्जनभसेत्येतत्समाश्रयत्वात् / द्वितीयस्य तु स्वगता / तदेवमभिधाशक्त्यैवम्भूतया त्रिप्रकारया यमके प्रभिन्नौ समुदायौ प्रयुज्यते / अन्यथा विशिष्टार्थप्रतिपत्तेरनिर्वाहात् / 5 सभाजनम् इति / अत्र समस्तपादान्त्या भागानामनन्तरपादाद्यार्द्धभागेष्वावर्तयितुमुपकान्तत्वात्तुर्यपादस्याऽपरपादानन्तर्यमसम्भवीति तद्भागं प्रथमपादभाग एवावर्त्य सान्वयमेव चक्रकव्यपदेशं चकार शास्त्रकार इति यत्र प्रथमोद्देशस्तेनैवेतरस्य यमनमिति क्रमरागितया आद्यन्तकयमकसङ्कराशङ्का न कार्या / एवं जयन्ति ते इत्यत्राऽप्यन्तादिकसङ्करभ्रमो न विधेयः। समस्तपादगतत्वेन इति / स्ववृत्त्याऽनेकपादव्याप्तिर्यथा / चक्रं दहतारम् इति / 10 सजातीयेन यथा सुदासेन इति / अत्र नादौ न मध्ये नान्तेऽपि तु समग्रेऽपि पादे स्ववृत्त्या लब्धस्वरूपस्य यमकस्य सजातीयेन यमकेनाऽनेकपादव्याप्तिः / आद्यन्तयोरित्यादि / अन्तायोर्मध्यायोरन्तमध्ययोरिति व्युत्क्रमेणाऽपि स्थानसाङ्कय द्रष्टव्यम् / एतच्च भेदप्रभेदकलनया कल्पलतायां दण्डिनि च स्पष्टितमस्ति / / मौलविकल्पा अष्ट भवन्तीति सम्बन्धः / द्वाविंशतिः इति / पादद्वयत्रयचतुष्टयद्वय- 15 द्वयगतत्वेन सरूपस्य त्रयो द्वावेक एकश्चेति सप्त / पञ्चदश तु प्रसिद्धा एव / सप्त इति / पादद्वयत्रयद्वयद्वयगतत्वेन त्रयो द्वौ द्वौ चेति / आदौ मध्ये चेति उद्देशक्रमविलङ्घनेन यदेतद् व्याख्यातं तत्रापि मध्ये आदौ चेति परिहत्य व्यत्ययो यत् प्रदर्शितः / एतस्यानन्तरस्य च पश्चान्मध्यान्तेति च यद्व्याख्यातं तत्र हेतुः क्रमस्यैवं व्यवस्थितिरुदाहरणदृष्टिश्च। यश्च लक्षणश्लोके क्रमव्यत्यासः सच्छन्दोनुरोधात् पठितपठितत्वाद्वेति शुद्धं यमकमिति / 20 आदियमकं मध्ययमकम् अन्तयमकं चेत्यर्थः / एकपादगतत्वेन मध्यस्य मध्येन यमनं व्यपेतमेतस्य हि नाभिमतम् / ___अवसितं हसितम् इति / अत्रौद्यपादयोस्तत्पादगतत्वेन मध्यस्य मध्येन यमनान्मध्ययमके / एकैका चावृत्तिरधिका / अथवा आद्यपादस्थस्य प्रथमस्य द्वितीयस्य तृतीयस्य वा मध्यस्य द्वितीयपादगतेनान्तेन यमनान्मध्यान्तयमकम् / शेषाश्चावृत्तयोऽधिकाः / अथवा 25 प्रथमपादगतस्य मध्यस्य द्वितीयपादगतेन मध्येन यमनान्मध्ययमकं पादद्वयगतं चावृत्ति - 1. सभाजनमिति इत्यत आरभ्य स्पष्टितमस्ति इत्यन्तः पाठो गपुस्तके नास्ति // 2. द्वाविंशतिरितिप्रभृति द्वौ द्वौ चेति पर्यन्तः पाठः गपुस्तके पतितः // 3. पादयो......आद्य - इति ग पुस्तके नास्ति // 4. द्वितीयस्य...मध्यान्त यमकम् इत्यस्य स्थाने मध्यस्य द्वितीयपादगतेन यमनान्मध्यान्तयमकम् क ग // .