________________ 188 कल्पलताविवेके प्रयोजनम् इति / तथा प्रसिद्धेरभावात् मुख्यशब्दार्थोल्लङ्घनस्य च निष्प्रयोजनस्याऽयुक्तत्वाचेत्यभिप्रायः / तदेवं मन्दादौ विशेष समाश्रीयमाणे तथा प्रसिद्धयभावः / सामान्ये तु दुःखित्वमात्रे वैफल्यमनुप्रासानां, मन्दादीनां शब्दानां वाच्यस्याऽविवक्षितत्वात् / एवं चक्री चक्रार5 पङ्क्तिमित्यत्राऽपि विशेषविवक्षायां तथाप्रसिद्धयभावः / सामान्यरूपेण तु स्पन्दनस्य लक्षणयोपवर्णने वैफल्यम् / अन्तमार्ग इति प्रथमपादस्येत्यर्थः / अन्तभागेषु इति द्वितीयादिपादानामित्यर्थः / इति प्रकारे / अन्त्यार्दादि इति / आदिग्रहणेन तृतीयचतुर्थी गृह्यते / एवं आद्यार्द्धादीत्यत्राऽपि अन्तादिकमिति / सामान्येन संज्ञेयं वदयमाणे भेदत्रये अन्तायोर्यमनात् / सन्दष्टकसमुद्गकादेः इति / अत्रादिशब्देन सङ्ग्रहीतानां मध्ययमका10 दीनामसङ्ग्रहाद्विघटत इत्युक्तम् / एतदेवाह-तथाहि इति / समुदाय इति वा स्याद् इति वाग्रहणाद्विकल्पितः / पञ्चममिति श्लोकव्याख्याक्रमेण द्वितीयमपि पञ्चानां पूरकत्वेन पञ्चममित्युक्तम् / रूपमात्रेण इति / मात्रग्रहणेन क्रमं निराकरोति / यमके किल द्वयोरुपयोगः / रूपस्य क्रमस्य च यत् पूर्वमुपात्तं रूपं तस्यैवोत्तरत्रोपलम्भे सति यमकव्यपदेशात् / 15 इह तु अन्तर्गतं रूपं मध्य उपलभ्यते / साधुः संसाराद्विभ्यदस्मादसाराद् इति / न तु साराशब्दस्य पूर्वमन्त उपलम्भः पश्चान्मध्ये तेन अन्तयमकरूपमत्र विद्यते / नन्वन्तयमकक्रमः / तेनान्तयमकगतक्रमाविवक्षायां अन्तयमकगतं रूपमात्रमुपादाय एतदन्तयमकस्याप्युदाहरणं द्रष्टव्यम् / न्यूनता इति / असुरस्य हि मूलभूतपितृवंशमातृकुलस्वजनवर्गसुहृत्समूहस्वाम्य20 स्व(न्व:)वायसेवकजनपरिकरितस्य विनाशः साधयितुमभीप्सितः / स च सर्वसमुच्छेदनक्षमक्षयमारुतसमुच्छेद्यसर्वार्थोपमितस्यैव सिध्यतीति कर्मत्वेनाऽनभिहितोऽपि सर्वार्थः साम•द्गम्यत इति न तन्न्यूनता काचिदिति / अश्लीलता इति / स मारुतः क्षयव्याधिरमङ्गलातङ्कदाय्यपि मूलभूतशरीरविनाशेनाऽसुरस्य विनाशयितुमिष्टत्वान्न दुष्टः / आश्रयगतार्थवशेन इति / निरर्थकत्वेऽप्यभिधा25 व्यापारः सम्भवतीत्यत्र हेतुरयम् / तथा ह्यर्थप्रतिपत्त्यन्यथाऽनुपपत्त्युन्नेयः शब्दव्यापारोऽभिधा। साच तयोः समुदाययोः स्वगता आश्रयगता उभयगता वा। स्वगता सुतरां सुतरामिति / 1. च गपुस्तके नास्ति // 2. वैफल्यम् अन्त्यार्धादिति ग // 3. -णभे- ग // 4. इतः प्राक् अधिकपाठस्य चिह्नं वर्तते पाठस्तु नास्ति // 5. तथाहीति रूपमात्रेणेति ग. // 6. न्यूनतेति इत्यारभ्य न दुष्टः इत्यन्तः पाठो गपुस्तके नास्ति //