________________ शब्दालङ्कारदर्शनम् पुनरुक्तदोषप्रसङ्गः, कथं च लाटानुप्रासपर्यनुयोग इति / पुनरुक्ताभासताऽपि शब्दसारूप्येऽथैकत्वनानात्वयोः शब्दसारूप्याभावेऽपि अर्थैकत्वाभासे भवतीति त्रिविधा / अवान्तरभेदापेक्षया तु बहुप्रभेदा वक्ष्यते / अत एव च पुनरुक्ताभासेषु लाटीयोऽनुप्रासस्तदपवादद्वारेण च यमकालङ्कारश्च भवतीत्येतदेव वक्तं न्याय्यमित्यर्थः / / ___ अव्यासज्य इति पृथग्भूत्वा / अर्थाभिधा इति / अर्थाभिधावृत्तित्वमत्र सम्भ- 5 वापेक्षम् / वीप्सा इति / वीप्साशब्देनाऽत्र वीप्सातुल्यता लक्ष्यते / वारंवारमित्यत्र हि वीप्सातुल्यतैव प्रसिद्धा, न तु वीप्सेति / अतिशय-इति द्विरुक्तया ह्यतिशयविशिष्टत्वं निरीक्षण भिधाने शक्तिरस्ति / न च घनेत्येकस्य वर्णसमुदायस्य काचिच्छक्तिरित्यसंमिश्रितत्वमेव / वारंवारमित्यादौ तु वारमित्यादेः शब्दस्यैकास्यऽप्यस्ति शक्तिरिति संमिश्रितत्वमेव / अर्थ- 10 भेदाद इति / सम्भवापेक्षं सेवते इति / सेवते श्रीस्तेषां गृहमिति सम्बन्धः / अत एव च इति / यतो गुणाननुवर्ततेऽतो मार्गानऽपीत्यर्थः / गुणद्वारेणैव मार्गाणां व्यवस्थानात् / वृत्तिवैचित्र्येति / वृत्तयो हि स्वतन्त्राः परिमिताश्चेत्यर्थः / पत्ता येति / प्राप्ताश्च वानराः निझरैः शुक्लत्वात् प्रकर्षेण हसितानीव यानि दरीमुखानि तेभ्यो निर्गतो बकुलामोद एव मदिरामोदो यत्र / धूमाए इति / धूमायते 15 धूमवत् कलुषे ज्वलतीव कोपज्वालाच्छुरितत्वात् / ज्वलदारोहज्ज्याबन्धे / समफंदंतो इति तिरस्कुर्वन्नित्यर्थः / न व्यवधायकत्वम् इति / चकारस्येति शेषः / किश्चिद्वच्मि इति / भवादृशेषु पतिषु सत्सु स्वेषामात्मीयानां अदोषे दमाः दोषं विना सर्वस्वापहारिणः केऽपि न दृश्यन्ते / केवलं त्वदीया एव गुणा ईदृशाः सन्ति एतदेव सवितर्कमाह / ते किं सन्ति इति 20 हृदयं हि सर्वस्य सर्वस्वभूतमेव / समस्तत्वम् इति समासवत्त्वम् / एकविधौ इति सामान्यलक्षणाऽपेक्षया / द्विधा इति समग्रासमग्रपदत्वाभ्याम् / त्रिधा इति व्यवहिताव्यवहितोभयरूपत्वेन / दुःखित्वस्य च इति / अत्र दुःखित्वं कुन्दादिषु प्रत्येकं मन्दत्वादिना विभज्य यदि वर्ण्यते तदा तथा प्रसिद्धयभावः / अथ मन्दादीनां शब्दानां लक्षणया दुःखप्रकर्षमात्रापरेत्वमाश्रित्य तथा प्रसिद्धयभावः परिहियेत, एवं सति प्रयोजनमन्तरेण लक्षणा- 25 ऽनुप्रासानुरोधेनैवाश्रिता स्यात् / अतश्च एतेषां लक्षणावशेनाऽऽविर्भूतस्वभावानामनुप्रासानां निष्फललक्षणाहेतुकत्वान्निष्फलत्वम् / सर्वत्र हि प्रयोजनवशाल्लक्षणा समाश्रीयते / अनेकधा विभज्य कथने इति / मन्दत्वादिविशेषरूपेण दुःखित्वस्य प्रतिपादनात् विशेषेण मन्दत्वादिना सामान्यस्य दुःखित्वस्य लक्षणाच्चेत्यभिप्रायः / न किञ्चित्