________________ 186 कल्पलताविवेके राजते। व्याचष्टे स्म, सदेवं' विक्रीय तद्यात्रोत्सवमकार्षीत् / एवं हि व्यङ्गयस्य या गुणीभूतता प्रकृता सैव समूलं त्रुट्येत् / रसादिव्यतिरिक्तस्य हि व्यङ्गयस्य रसाङ्गभावभागित्वमेव प्राधान्यं, नान्यत् किञ्चिदिति / एवं ध्वनिगुणीभूतव्यङ्ग्ययोविभागे व्यवस्थिते न्यक्कारो ह्ययमेवेत्यादिश्लोके 5 निर्दिष्टानां पदानां व्यङ्ग्यविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसाऽपेक्षया व्यञ्जकत्वमुक्तम् / न तु तेषां पदानामर्थान्तरसङ्क्रमितवाच्यध्वनिभ्रमो विधातव्यः, विवक्षितवाच्यत्वात्तेषाम् / तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते / न तु व्यङ्यरूपपरिणतत्वम् / तस्माद्वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूतव्यङ्ग्यानि / न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेर्व्यञ्जकानि, 10 यावदर्थान्तरसङ्क्रमितवाच्यध्वनिप्रभेदरूपाण्यपि / यथाऽत्रैव श्लोके रावण इत्यस्य ध्वनि प्रभेदान्तररूपस्य व्यञ्जकत्वम् / यत्र तु वाक्ये रसादितात्पर्य नास्ति, गुणीभूतव्यङ्ग्यैः पदैरुद्भासितेऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः / यथा राजानमपि सेवन्ते विषमप्युपयुञ्जते / रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः // इत्यादौ / 15 . यद्यपि चाऽत्र विषये निर्वेदात्मक शान्तरसप्रतीतिरस्ति, तथाऽपि चमत्कारोऽयं वाच्यार्थनिष्ठ एव / व्यङ्ग्यं त्वसम्भाव्यत्वविपरीतकारित्वादि तस्यैवानुयायि / तच्चापिशब्दाभ्यामुंभयतो योजिताभ्यां, चशब्देन च स्थानत्रययोजितेन, खलुशब्देन चोभयतो योजितेन, मानवशब्देन च स्पृष्टमेवेति गुगीभूतम् / तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः, येन ध्वनिगुणीभूतव्यङ्ग्ययोरलङ्कारान्तराणां च सङ्कीर्णो 20 विषयः सुज्ञातो भवति / एवं प्रदर्शितं ध्वनिस्वरूपम् / तद्विलक्षणगुणीभूतव्यङ्ग्यस्वरूपे हि परिज्ञाते तदपि यथावदवबुध्यत इति गुणीभूतव्यङ्ग्यस्वरूपमपि प्रदर्शितमिति भावः / प्रहसत्सर्व इति / प्रह्लाः शोभनाश्च सर्वे यस्य तस्य सम्बोधनम् उदाहृतमेव इति / दृष्टिं दृष्टिसुखामित्यादि / सरूपवर्णविन्यासे इति / वर्णग्रहणेन स्वरा व्यञ्जनानि च गृह्यन्ते / द्वय्येव गतिः इति / कथं लाटाऽनुप्रासोऽयमुच्यते इति भावः / नैतदेवमिति वक्तुं युज्यते, इदमेव तु वक्तुमुचितमिति शेषः / अयमभिप्रायः / सरूपाणां स्वरव्यञ्जन25 समुदायानां विन्यासे पुनरुक्ताभासतैव सङ्गच्छते, को ह्यनुन्मत्तः पुनरुक्तं ब्रूयादिति / तत्र चार्थाभेदेऽपि तात्पर्यभेदश्चेत्तदा लाटीयोऽनुप्रासः उतार्थभेदस्ततो यमकालङ्कार इति कुतः 1. गुणीभूतव्यङ्गयतास्थानीयम् // 2. रसादौ // 3. काव्य // 4. कर्मत्वविरहेण तुल्यकक्ष्यत्वाभावात् स्त्रीभिरित्यत्र न योजितः // 5 अवान्तरवाक्यार्थत्रयसमुच्चयद्योतकेन // 6. क्रियात्रयः // 7. विशेषणविशेष्याभ्याम् //