SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके द्वयमन्यदेधिकम् / उत्तरपादयोस्तु मध्ययमके मध्यान्तयमके वा। एकैका चाऽऽवृत्तिरधिका इति / अनुल्लेखिनोऽयत्र यमकविशेषा आवृत्त्याधिक्यादुल्लिखन्त्येवेत्युदाहृताः / सभासु राजन्नसुराहतैरिति / अत्र पादचतुष्टयगतत्वेनैकरूपं मध्ययमकम् / द्वितीयद्वितीया चाऽवृत्तिः पादचतुष्टयेऽप्यधिका / अन्यभेदे व्यपेतरूपे इत्यादि / व्यपेते5 व्यपेतं स्थूलम् / उपोढरागेति। सूक्ष्ममता धुनानेति / अव्यपेते अव्यपेतं स्थूल स तमा इति। सूक्ष्मंस नाकेति / अव्यपेतेव्यपेतं स्थूलं हठपीति सूक्ष्मं धराधरेति / व्यपेते व्यपेतं स्थूलं सालमित्याद्यर्द्धम् / सूदमं न नामेत्यर्द्धम् / एवमन्यभेदस्वभेदयोः प्रत्येकं स्थूलसूक्ष्मात्मत्वे नाऽध्यपेतं चतुःप्रकारं व्यपेतं च तथैवेत्यष्टधाप्रायः पादसन्धियमकं बध्यत इत्यर्थः / 10 प्रत्यागतेयतेश्व इति। द्वितीययामाशब्दस्य मण्डूकप्लुत्या प्रत्युच्चारणादाद्यन्तयमकं यामा नीतेत्यत्र विच्छेदान्मध्यमकं च नोल्लिखतीत्यर्थः / प्रायद इति / यामानीतेतीव धराधरेति अत्र द्वितीयादिपादेषु मही महीत्यादिर्या सूदमा वृत्तिस्तैदरादिभागानां व्याप्तत्वान्मध्ययमकव्यपदेशस्तस्या नोचित इत्यस्थानयमकता / सालम् इति / अत्रादौ सूक्ष्मावृत्त्या स्वभेदे सति सुरतापनीयं सुरतापनीयमिति स्थूलावृत्त्या मध्यस्याऽपि बहुव्याप्तत्यान्नान्तयमक15 व्यपदेशो युज्यत इत्यस्थानयमकता / उत्तरार्द्ध तु यो यमकप्रकारः स धराधरेत्यनेनैव गतार्थ इति तस्याऽनुदाहरणता / एवमपि इति / स्वभेदान्यभेदयोः सूक्ष्मं स्थूलं चेत्यर्थः / ननाम इति / अत्रादौ स्थूलावृत्त्या स्वभेदे सति नना नसेति सूक्ष्माऽऽवृत्त्याऽल्पीयसोऽत्र भागस्य व्याप्तत्वात् पूर्ववदस्थानयमकता / उत्तरार्दै त्वनुदाहरणतेति / तद्धाव-इति / तस्मिन् शब्देऽर्थे वा 20 सति भवनमित्यन्वयः / तस्मिन्नर्थे शब्दे वा सति न भवनमिति व्यतिरेकः / तयोराश्रयगादित्यर्थः / स्तोकेन इति / अत्र स्तोकोन्नत्यादीनां शब्दानां स्थाने स्वल्पोच्चैस्त्वादिशब्दा यदि निबध्यन्ते तथाऽपि न श्लेषत्वक्षतिः / स्वयं च पल्लवताम्रेत्यत्र तु दीप्रप्राणिशब्दौ १.-दधिकं तृतीयतृतीयाभ्यां चावृत्तिभ्यां मध्यान्तयमकम् / उत्तरपादयोस्तु मध्यान्तयमके क ग // 2. अनुल्लेखिनो ...... त्युदाहृताः इति पाठः क ग. पुस्तकयो स्ति // 3. हठपीतेति // 4 प्रायोग्रहणात् पादे लोके वाऽत एव सालमित्यादि पादे दर्शितम् / प्रायः इति क. ग. पुस्तकयो स्ति // 5. –गतेरिति क. ग // 6. द्वितीयामा-क // 7 –चारणादित्यर्थः यतेरिति क. ग / गतेरिति ग. // 8. विच्छेदान्मध्यमकं नोल्लिखन्तीत्यर्थः / विच्छेदादित्यर्थः एवमपीति सालं वहन्तीत्यत्रोत्तरार्द्ध यो यमकप्रकारः स धराधरेत्यनेनैव गतार्थ इति चतुर्थव्यपेतपादसन्धियमकप्रकारोदाहरणदर्शनार्थमेतदिति न नामेत्यत्राप्युत्तरार्द्धयमकप्रकारस्तथैव गतार्थ इति क. ग. / दान्मध्यम.........राश्रयणादित्यर्थः इति क. ग. पुस्तकयो स्ति // 9. आवृत्ति //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy