________________ 170 कल्पलताविवेके अव्युत्पत्तिकृतो दोषः शक्त्या संवियते कवेः / यस्त्वशक्तिकृतस्तस्य स झगित्यवभासते // तथाहि महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसम्भोगशृङ्गारनिबन्धनाद्यनौचित्यमुत्तमदेवीविषयं शक्तितिरस्कृतत्वाद् ग्राम्यत्वेन न प्रतिभासते। यथा-कुमारसम्भवे देवी5 सम्भोगवर्णनम् / एवमादौ च विषये यथौचित्यत्यागस्तथा दर्शितमेव प्राक् / शक्तितिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते / तथाहि शक्तिरहितेन कविनैवंविधे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतिभासते / ___ नवैस्मिन् पक्षे यो यः शस्त्रं बिभर्तीत्यादौ किमचारुत्वम् / अप्रतीयमानमेवारोपयामः / तस्माद् गुणव्यतिरिक्तत्वे सङ्घटनाया नियमहेतुरेव नास्ति, गुणरूपत्वे वा न रसो 10 नियमहेतुरित्यन्यः कश्चिद्वक्तव्य इत्युच्यते / तेन्नियमे हेतुरौचित्यं वक्तवाच्ययोः / तत्र वक्ता कविः कविनिबद्धो वा / कविः कविनिबद्धश्चापरसभावो रसभावसमन्वितो वा / रसोऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा / कथानायकश्च *धीरोदात्तादिभेदभिन्नः पूर्वस्तदितरो वेति विकल्पाः / वाच्यं च ध्वन्यात्मभूतरसाङ्गं रसाभासाङ्गं वा / अभिनेयार्थमनभिनेयार्थं वा / 15 उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् / तत्र यदा कविरपरसभावो वक्ता तदा रचनायाः कामचारः / यदाऽपि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव / यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितः, रसश्च प्रधानाश्रितत्वाद् ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यमसमासे एव सङ्घटने / ___ करुणविप्रलम्भशृङ्गारयोस्वसमासैव सङ्घटना / कथमिति चेत् , उच्यते-रसो यदा 20 प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः / एवं च दीर्घसमासा सङ्घटना समासानामनेकप्रकारसम्भावनया रसप्रतीति कदाचिद् व्यवदधा- तीति तस्यां नात्यन्तमभिनिवेश: शोभते, विशेषतोऽभिनेयार्थे काव्ये, तत्राऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः / तयोर्हि सुकुमारत्वात् स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति / 25 रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा सङ्घटना / कदाचिद्वीरोद्धतनायक 1. कवेः // 2. सम्भोगो ह्यसौ तथा वर्णितो यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्श कर्तु न ददाति // 3 सङ्घटनारूपगुणपक्षे // 4. सोत्प्रासेयमाचार्यस्योक्तिः / पूर्वापरपरामर्शविवेकशालिभिरपि यन्न प्रतीयते तदारोपयितुं न शक्यत एवेति भावः // 5. सङ्घटना // 6. प्रधानवाक्यार्थमाश्रितः॥ 7. रसास्वादने विघ्नरूपाः // 8. विपरीताऽऽस्वादमयाः॥ 9. अनभिनेयार्थे // *वी. ग.॥