________________ शब्दालङ्कारदर्शनम् ह्यसङ्घटिता शब्दा अर्थविशेषप्रतिपाद्यरसाश्रितानां गुणानामवाचका आश्रयो भवन्ति / नैवं वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् / अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां नियता काचित् सङ्घटना तेषामाश्रयत्वं न प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एव, गुणानां व्यङ्ग्यविशेषाऽनुगता आश्रयः / ननु माधुर्ये यदि नामैवमुच्यते तदुच्यतां, ओजसः पुनः कथमनियतसङ्घटनशब्दा- 5 श्रयत्वम् / न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतिपद्यते / उच्यते-यदि न प्रसिद्धिमात्रग्रहदूषितं चेतस्तदाऽत्राऽपि न न ब्रूमः / ओजसः कथमसमासा सङ्घटना नाश्रयः / रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक् प्रतिपादितम् / तच्चौजो यद्यसमासायामपि सङ्घटनायां स्यात्तदा को दोषो भवेत् / न चाऽचारुत्वं सहृदयसंवेद्यमस्ति / तस्मादनियतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित् क्षतिः / तेषां तु चक्षुरादी- 10 नामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद् व्यभिचारः / तस्मादन्ये गुणा अन्या च सङ्घटना, न च सङ्घटनामाश्रिता गुणा इत्येक दर्शनम् / ____ अथवा सङ्घटनारूपा एव गुणाः / यत्तूक्तं सङ्घटनावेद् गुणानामप्यनियतविषयत्वं प्राप्नोति / लक्ष्ये व्यभिचारदर्शनादिति / तत्राऽप्येतदुच्यते / यत्र लक्ष्ये परिकल्पितविषयव्यभिचारस्तद्विरूपमेवास्तु / कथमचारुत्वं तादृशे विषये सहृदयानां न प्रतिभातीति चेत् , 15 कविशक्तितिरोहितत्वात् / द्विविधो हि दोषः कवेरेव्युत्पत्तिकृतोऽशक्तिकृतश्च / तत्राव्युत्पत्तिकृतः शक्तितिरस्कृतत्वात् कदाचिन्न लक्ष्यते / यस्त्वशक्तिकृतो दोषः स झटिति प्रतीयते / परिकरश्लोकश्चात्र / 1. शब्दार्थालम्बनत्वे हि शब्दार्थालङ्कारेभ्यः को विशेष इति / ग. // 2. ननु वाक्यव्यङ्ग्यध्वनी तविश्यमनुप्रवेष्टव्य सङ्घटनया, स्वसौन्दर्य वाच्यसौन्दर्य वा तया विना कुत इत्याह-अभ्युपगते वेति / वाशब्दोऽपिशब्दस्यार्थे वाक्यव्यङ्ग्यत्वेऽपीत्येवं योज्यः / एतदुक्तं भवति / अनुप्रविशतु तत्र सङ्घटना, तथाऽपि माधुर्यस्य न नियता सङ्घटना आश्रयो वा स्वरूा वा वर्णपदव्यङ्ग्यवद्वाक्यव्यङ्ग्येऽपि रसादौ सङ्घटनां विहायापि वाक्यस्य तत्तद्रसव्यञ्जकत्वात् / 3 सङ्घटना सन्निहितापि रसव्यक्तावप्रयोजिकेति तस्मादौपचारिकत्वेऽपि शब्दाश्रया एव गुणा इत्युपसंहरति-शब्दा एवेति / वर्णानां रसाभिव्यक्तिहेतुत्वमेव पदानां रसाभिव्यक्तियोग्यार्थावभासकत्वमेव च माधुर्यादीति किं सङ्घटनया / विशेषणद्वारको हेतुरयम् / उपचारेणाऽपीत्यर्थः। शुद्धं न तु सङ्घटितम् / सङ्घटितम् इत्यर्थः ग. // 4. गुणानाम् / अवाचकान्यपि वर्णपदानि रसाश्रितानां गुणानामाश्रयो भवन्तीति भावः // 5 लक्षणहेत्वोरिति शतृप्रत्यस्तेन रौद्रादिप्रकाशनालक्ष्यमाणमोज इति भावः / / 6. किमचारुत्वम् / / 7 चो हेतौ, यस्माद्यो यः शस्त्रमित्यादौ न चारुत्वं भाति तस्मादित्यर्थः // 8 अथेत्यर्थः / 9. रसाभिव्यक्तावेतदेव सामर्थ्य शन्दानां यत्तथा तथा सङ्घटमानत्वमिति भावः // 10. अचारु // 11. शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेखशालिस्वम् // 12. व्युत्पत्तिः प्रतिभानोपयोगिसमस्तवस्तुपौर्वापर्यपरामर्शकौशलम् / ततोऽन्याऽव्युत्पत्तिः ग.॥ 22